आचार्य-सुश्रुतस्य मार्गमनुसृत्य चिकित्सा-नैतिकतां रोगिषु च करुणां धारयन्तु - राष्ट्रपतिः
नवदेहली, १५ जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू बुधवासरे अवदत् यत् आयुर्वेदस्य भविष्यं युवा-विद्यार्थिनां शोधकर्तॄणां च हस्तेषु निहितम् अस्ति। सा तान् आचार्य-सुश्रुतेन प्रदर्शितं मार्गम् अनुसृत्य चिकित्सा-नैतिकतायाः, वैज्ञानिक-दृष्टिकोणस्
राष्ट्रपति द्रौपदी मुर्मु बुधवार को अखिल भारतीय आयुर्वेद संस्थान (एआईआईए) में आयोजित तीन दिवसीय अंतरराष्ट्रीय संगोष्ठी ‘सौश्रुतम् 2026’ का उद्घाटन करते हुए


नवदेहली, १५ जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू बुधवासरे अवदत् यत् आयुर्वेदस्य भविष्यं युवा-विद्यार्थिनां शोधकर्तॄणां च हस्तेषु निहितम् अस्ति। सा तान् आचार्य-सुश्रुतेन प्रदर्शितं मार्गम् अनुसृत्य चिकित्सा-नैतिकतायाः, वैज्ञानिक-दृष्टिकोणस्य, रोगिषु करुणामय-सेवायाश्च संकल्पे सदैव दृढतया स्थातुम् आहूतवती।

सुश्रुत-जयन्त्याः अवसरे अत्र अखिल-भारतीय-आयुर्वेद-संस्थाने आयोजितायाः त्रिदिवसीय-अन्ताराष्ट्रिय-सङ्गोष्ठ्याः ‘सौश्रुतम् २०२६’ उद्घाटनं राष्ट्रपतिना कृतम्। अस्मिन् एव अवसरे संस्थानस्य नवीन-एमआरआई-विभागस्यापि उद्घाटनं तया कृतम्।

समारोहम् सम्बोधयन्ती राष्ट्रपतिः शल्यचिकित्सायाः जनकरूपेण विख्यातम् आचार्य-सुश्रुतं श्रद्धया स्मृत्वा अवदत् यत् शताब्दीभ्यः पूर्वमेव तेन शल्यचिकित्सा-पद्धतेः सूत्रपातं कृत्वा स्वकाले क्रान्तिकारी-परिवर्तनस्य आधारः स्थापितः। सा उक्तवती यत् आचार्य-सुश्रुतः अनेकासां जटिल-नवोन्मेषात्मक-शल्यप्रक्रियाणां प्रवर्तकः आसीत्। तेन प्लास्टिक-शल्यचिकित्सायाः, मोतियाबिन्दु-शल्यचिकित्सायाः, अर्बुद-चिकित्सायाः तथा कर्ण-नासा-कण्ठ-शल्यचिकित्सायाः क्षेत्रेषु नवीन-प्रविधीनां विकासः कृतः। तस्य ‘सुश्रुतसंहिता’ भारतमेव न, अपितु सम्पूर्णं विश्वं चिकित्साविज्ञानस्य नूतनां दिशं प्रदत्तवती।

राष्ट्रपतिः अवदत् यत् भारतीय-परम्परायां निहितं मानव-कल्याणकरं ज्ञानं कालस्य आवश्यकतानुसारं विकसितुं समाजस्य हिताय भवति। आयुर्वेदस्य समग्र-जीवन-दृष्टिः मानवतायाः अमूल्य: धरोहरः अस्ति, अतः एतत् प्राचीन-ज्ञानं आधुनिक-युगेऽपि प्रासङ्गिकं प्रभावकरं च भवेत् इति सुनिश्चितं कर्तव्यम्।

सा अवदत् यत् भारत-सर्वकारेण आयुर्वेदः योगश्च वैश्विक-स्तरे नूतनं परिचयं प्राप्तवन्तौ। प्राचीन-आयुर्वेदिक-शल्यचिकित्सा-परम्परायाः आधुनिक-वैज्ञानिक-मानदण्डैः प्रमाणीकरणार्थं सर्वकारः निरन्तरं प्रयतते। मानकीकृत-तथ्यकरणस्य, डिजिटल-स्वास्थ्य-व्यवस्थायाः एकीकरणस्य, आधुनिक-वैज्ञानिक-अनुसन्धान-प्रविधीनां प्रभावी-प्रयोगस्य च माध्यमेन आयुर्वेदस्य वैश्विकी-स्वीकृतिः अधिकं सुदृढा भविष्यतीति सा अवदत्।

राष्ट्रपतिः विश्वासं व्यक्तवती यत् अस्याः अन्तरराष्ट्रीय-सङ्गोष्ठ्याः विचार-विमर्शैः नूतन-ज्ञानस्य सृजनं भविष्यति तथा आयुर्वेदिक-शल्यचिकित्सा-क्षेत्रे अन्ताराष्ट्रिय-सहकार्याय नूतना दिशा सुदृढता च प्राप्स्यते। प्राचीन-भारतीय-चिकित्सा-परम्परा आधुनिक-वैज्ञानिक-अनुसन्धानस्य वैश्विक-सहकार्यस्य च माध्यमेन विश्वस्तरे अधिकां स्वीकृतिं प्राप्नुयादिति सा अभिप्रायम् अप्रकटयत्।

राष्ट्रपतिः युवा-विद्यार्थिनः शोधकर्तॄंश्च जिज्ञासया, सत्यनिष्ठया, वैज्ञानिक-दृष्टिकोणेन च सह व्यावहारिक-अनुसन्धानं कर्तुं, उच्च-गुणवत्तायुक्तानि वैज्ञानिक-प्रमाणानि विकसितुं च आहूतवती। आवश्यकतायां सति नवीन-प्रविधीनां प्रयोगे संकोचः न कर्तव्यः इति सा उक्तवती। सहैव आचार्य-सुश्रुतस्य आदर्शान् अनुसृत्य चिकित्सा-नैतिकतां रोगिषु संवेदनशीलां करुणामयीं सेवां च सर्वोच्च-प्राथमिकतया स्वीकर्तुं परामर्शम् अददात्।

राष्ट्रपतिः पुनरपि विश्वासं व्यक्तवती यत् ‘सौश्रुतम् २०२६’ इत्यस्य विचार-विमर्शैः आयुर्वेदिक-शल्यचिकित्सा-क्षेत्रे अन्ताराष्ट्रिय-सहकार्यं अधिकं सुदृढं भविष्यति। एतादृशानि सार्थक-आयोजनानि समग्र-स्वास्थ्य-सेवा-व्यवस्थायाम् आयुर्वेदस्य भूमिकां अधिकां सुदृढां कर्तुं महत्त्वपूर्णं योगदानं दास्यन्तीति सा अवदत्।

अखिल-भारतीय-आयुर्वेद-संस्थाने आयोजिता एषा त्रिदिवसीया अन्ताराष्ट्रिय-सङ्गोष्ठी भारतेन सह विभिन्न-देशेभ्यः आगतान् प्रतिष्ठितान् शल्यचिकित्सकान्, शिक्षाविदः, शोधकर्तॄंश्च एकस्मिन् मञ्चे समानीय आयुर्वेदिक-शल्यचिकित्सासम्बद्धेषु समकालीन-अनुसन्धानेषु, नवाचारेषु, वैश्विक-सहकार्ये च व्यापकं विमर्शं करिष्यति।

कार्यक्रमम् सम्बोधयन् केन्द्रीय-आयुष-राज्यमन्त्री (स्वतन्त्र-प्रभारः) प्रतापराव-जाधवः अवदत् यत् आयुर्वेदिक-शल्यचिकित्सायाः वैश्विक-स्तरे निरन्तरं मान्यता वर्धते। वर्षे २००८ तमे ऑस्ट्रेलियादेशे प्रतिष्ठापनानन्तरं जून-२०२६ मासे स्कॉटलैण्डदेशे महर्षेः सुश्रुतस्य प्रतिमायाः स्थापना भारतस्य गौरवस्य विषयः इति सः अवदत्। अद्य भारतीय-आयुर्वेदिक-चिकित्सकाः आधुनिक-जटिल-शल्यचिकित्साः कर्तुं समर्थाः सन्ति, येन विशेषतः ग्रामीण-दूरस्थ-प्रदेशेषु स्वास्थ्य-सेवाः अधिकं सुदृढाः भवन्तीति अपि तेन उक्तम्।

जाधवः अवदत् यत् ‘सौश्रुतम् २०२६’ इत्यस्मिन् भारतेन सह अनेक-देशेभ्यः आगताः पञ्चाशदधिकाः अन्ताराष्ट्रिय-विशेषज्ञाः तथा पञ्चशताधिकाः प्रतिनिधयः सहभागिनः सन्ति। एषः सम्मेलनम् आयुर्वेदिक-शल्यविज्ञान-क्षेत्रे वैश्विक-सहकार्याय नूतनां दिशं प्रदास्यति, तस्य वैज्ञानिक-स्वीकृतिं अन्ताराष्ट्रिय-परिचयं च अधिकं सुदृढं करिष्यति, मील-स्तम्भरूपेण च सिद्धो भविष्यतीति तेन विश्वासः व्यक्तः।

Hindusthan Samachar / Divya Ranjan