Enter your Email Address to subscribe to our newsletters

नवदेहली, १५ जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू बुधवासरे अवदत् यत् आयुर्वेदस्य भविष्यं युवा-विद्यार्थिनां शोधकर्तॄणां च हस्तेषु निहितम् अस्ति। सा तान् आचार्य-सुश्रुतेन प्रदर्शितं मार्गम् अनुसृत्य चिकित्सा-नैतिकतायाः, वैज्ञानिक-दृष्टिकोणस्य, रोगिषु करुणामय-सेवायाश्च संकल्पे सदैव दृढतया स्थातुम् आहूतवती।
सुश्रुत-जयन्त्याः अवसरे अत्र अखिल-भारतीय-आयुर्वेद-संस्थाने आयोजितायाः त्रिदिवसीय-अन्ताराष्ट्रिय-सङ्गोष्ठ्याः ‘सौश्रुतम् २०२६’ उद्घाटनं राष्ट्रपतिना कृतम्। अस्मिन् एव अवसरे संस्थानस्य नवीन-एमआरआई-विभागस्यापि उद्घाटनं तया कृतम्।
समारोहम् सम्बोधयन्ती राष्ट्रपतिः शल्यचिकित्सायाः जनकरूपेण विख्यातम् आचार्य-सुश्रुतं श्रद्धया स्मृत्वा अवदत् यत् शताब्दीभ्यः पूर्वमेव तेन शल्यचिकित्सा-पद्धतेः सूत्रपातं कृत्वा स्वकाले क्रान्तिकारी-परिवर्तनस्य आधारः स्थापितः। सा उक्तवती यत् आचार्य-सुश्रुतः अनेकासां जटिल-नवोन्मेषात्मक-शल्यप्रक्रियाणां प्रवर्तकः आसीत्। तेन प्लास्टिक-शल्यचिकित्सायाः, मोतियाबिन्दु-शल्यचिकित्सायाः, अर्बुद-चिकित्सायाः तथा कर्ण-नासा-कण्ठ-शल्यचिकित्सायाः क्षेत्रेषु नवीन-प्रविधीनां विकासः कृतः। तस्य ‘सुश्रुतसंहिता’ भारतमेव न, अपितु सम्पूर्णं विश्वं चिकित्साविज्ञानस्य नूतनां दिशं प्रदत्तवती।
राष्ट्रपतिः अवदत् यत् भारतीय-परम्परायां निहितं मानव-कल्याणकरं ज्ञानं कालस्य आवश्यकतानुसारं विकसितुं समाजस्य हिताय भवति। आयुर्वेदस्य समग्र-जीवन-दृष्टिः मानवतायाः अमूल्य: धरोहरः अस्ति, अतः एतत् प्राचीन-ज्ञानं आधुनिक-युगेऽपि प्रासङ्गिकं प्रभावकरं च भवेत् इति सुनिश्चितं कर्तव्यम्।
सा अवदत् यत् भारत-सर्वकारेण आयुर्वेदः योगश्च वैश्विक-स्तरे नूतनं परिचयं प्राप्तवन्तौ। प्राचीन-आयुर्वेदिक-शल्यचिकित्सा-परम्परायाः आधुनिक-वैज्ञानिक-मानदण्डैः प्रमाणीकरणार्थं सर्वकारः निरन्तरं प्रयतते। मानकीकृत-तथ्यकरणस्य, डिजिटल-स्वास्थ्य-व्यवस्थायाः एकीकरणस्य, आधुनिक-वैज्ञानिक-अनुसन्धान-प्रविधीनां प्रभावी-प्रयोगस्य च माध्यमेन आयुर्वेदस्य वैश्विकी-स्वीकृतिः अधिकं सुदृढा भविष्यतीति सा अवदत्।
राष्ट्रपतिः विश्वासं व्यक्तवती यत् अस्याः अन्तरराष्ट्रीय-सङ्गोष्ठ्याः विचार-विमर्शैः नूतन-ज्ञानस्य सृजनं भविष्यति तथा आयुर्वेदिक-शल्यचिकित्सा-क्षेत्रे अन्ताराष्ट्रिय-सहकार्याय नूतना दिशा सुदृढता च प्राप्स्यते। प्राचीन-भारतीय-चिकित्सा-परम्परा आधुनिक-वैज्ञानिक-अनुसन्धानस्य वैश्विक-सहकार्यस्य च माध्यमेन विश्वस्तरे अधिकां स्वीकृतिं प्राप्नुयादिति सा अभिप्रायम् अप्रकटयत्।
राष्ट्रपतिः युवा-विद्यार्थिनः शोधकर्तॄंश्च जिज्ञासया, सत्यनिष्ठया, वैज्ञानिक-दृष्टिकोणेन च सह व्यावहारिक-अनुसन्धानं कर्तुं, उच्च-गुणवत्तायुक्तानि वैज्ञानिक-प्रमाणानि विकसितुं च आहूतवती। आवश्यकतायां सति नवीन-प्रविधीनां प्रयोगे संकोचः न कर्तव्यः इति सा उक्तवती। सहैव आचार्य-सुश्रुतस्य आदर्शान् अनुसृत्य चिकित्सा-नैतिकतां रोगिषु संवेदनशीलां करुणामयीं सेवां च सर्वोच्च-प्राथमिकतया स्वीकर्तुं परामर्शम् अददात्।
राष्ट्रपतिः पुनरपि विश्वासं व्यक्तवती यत् ‘सौश्रुतम् २०२६’ इत्यस्य विचार-विमर्शैः आयुर्वेदिक-शल्यचिकित्सा-क्षेत्रे अन्ताराष्ट्रिय-सहकार्यं अधिकं सुदृढं भविष्यति। एतादृशानि सार्थक-आयोजनानि समग्र-स्वास्थ्य-सेवा-व्यवस्थायाम् आयुर्वेदस्य भूमिकां अधिकां सुदृढां कर्तुं महत्त्वपूर्णं योगदानं दास्यन्तीति सा अवदत्।
अखिल-भारतीय-आयुर्वेद-संस्थाने आयोजिता एषा त्रिदिवसीया अन्ताराष्ट्रिय-सङ्गोष्ठी भारतेन सह विभिन्न-देशेभ्यः आगतान् प्रतिष्ठितान् शल्यचिकित्सकान्, शिक्षाविदः, शोधकर्तॄंश्च एकस्मिन् मञ्चे समानीय आयुर्वेदिक-शल्यचिकित्सासम्बद्धेषु समकालीन-अनुसन्धानेषु, नवाचारेषु, वैश्विक-सहकार्ये च व्यापकं विमर्शं करिष्यति।
कार्यक्रमम् सम्बोधयन् केन्द्रीय-आयुष-राज्यमन्त्री (स्वतन्त्र-प्रभारः) प्रतापराव-जाधवः अवदत् यत् आयुर्वेदिक-शल्यचिकित्सायाः वैश्विक-स्तरे निरन्तरं मान्यता वर्धते। वर्षे २००८ तमे ऑस्ट्रेलियादेशे प्रतिष्ठापनानन्तरं जून-२०२६ मासे स्कॉटलैण्डदेशे महर्षेः सुश्रुतस्य प्रतिमायाः स्थापना भारतस्य गौरवस्य विषयः इति सः अवदत्। अद्य भारतीय-आयुर्वेदिक-चिकित्सकाः आधुनिक-जटिल-शल्यचिकित्साः कर्तुं समर्थाः सन्ति, येन विशेषतः ग्रामीण-दूरस्थ-प्रदेशेषु स्वास्थ्य-सेवाः अधिकं सुदृढाः भवन्तीति अपि तेन उक्तम्।
जाधवः अवदत् यत् ‘सौश्रुतम् २०२६’ इत्यस्मिन् भारतेन सह अनेक-देशेभ्यः आगताः पञ्चाशदधिकाः अन्ताराष्ट्रिय-विशेषज्ञाः तथा पञ्चशताधिकाः प्रतिनिधयः सहभागिनः सन्ति। एषः सम्मेलनम् आयुर्वेदिक-शल्यविज्ञान-क्षेत्रे वैश्विक-सहकार्याय नूतनां दिशं प्रदास्यति, तस्य वैज्ञानिक-स्वीकृतिं अन्ताराष्ट्रिय-परिचयं च अधिकं सुदृढं करिष्यति, मील-स्तम्भरूपेण च सिद्धो भविष्यतीति तेन विश्वासः व्यक्तः।
Hindusthan Samachar / Divya Ranjan