गौवंशस्य संरक्षणं, संवर्धनम् एवं राष्ट्रव्यापी सम्मानं चाधृत्य पत्रकार वार्तानाम् आयोजन
भागलपुरम्, 15 जुलाईमासः (हि.स.)। भागलपुरनगरस्थितायां श्रीगौशालायां राष्ट्रव्यापिनः गोसम्मानाह्वानाभियानस्य विषये बुधवासरे पत्रकारसम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने मुख्यवक्त्र्यरूपेण देहलीनगरात् समागता किरणझा महोदया उपस्थितजनान् सम्बोधयामास। का
प्रदर्शन करते लोग


भागलपुरम्, 15 जुलाईमासः (हि.स.)।

भागलपुरनगरस्थितायां श्रीगौशालायां राष्ट्रव्यापिनः गोसम्मानाह्वानाभियानस्य विषये बुधवासरे पत्रकारसम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने मुख्यवक्त्र्यरूपेण देहलीनगरात् समागता किरणझा महोदया उपस्थितजनान् सम्बोधयामास। कार्यक्रमे श्रीगौशालायाः महामन्त्री गिरधारीकेजरीवालः, क्षेत्रस्य बहवः गोप्रेमिणः, सन्तः, प्रबुद्धनागरिकाश्च उपस्थिताः आसन्।

स्वीये सम्बोधने किरणझा महोदया अवदत् यत् एषः अभियानः न कस्यचित् राजनैतिकदलस्य, संस्थायाः अथवा सङ्गठनस्य अधीनः, अपितु सात्त्विकः, अहिंसात्मकः, लोकाभिप्रायाधारितश्च जनान्दोलनरूपः वर्तते। अस्य एकमेव ध्येयम् अस्ति यत् देशीयगोवंशस्य संवैधानिकं संरक्षणं, सुरक्षा तथा राष्ट्रीयसम्मानः सुनिश्चितः भवेत्।

श्रीगौशालायाः महामन्त्री गिरधारीकेजरीवालः सम्पूर्णे भारतवर्षे गोवधस्य पूर्णप्रतिषेधस्य तथा गोमातरं राष्ट्रमाता अथवा राष्ट्राराध्या इति संवैधानिकसम्मानप्रदानस्य आग्रहं कृतवान्। तेन उक्तं यत् भारतीयसंस्कृतौ, ग्रामीणार्थव्यवस्थायां सनातनपरम्परायां च गोमातुः स्थानं सर्वोपरि वर्तते। अतः देशीयगोवंशसंरक्षणार्थं सुदृढस्य प्रभाविकस्य च विधानस्य आवश्यकता वर्तते।

अभिषेककुमारजैनः स्ववक्तव्ये उक्तवान् यत् देशव्यापिरूपेण गोवंशस्य सम्यक् सेवा, संरक्षणं संवर्धनं च सुनिश्चितीकर्तुं केन्द्रीयगोसेवामन्त्रालयस्य गठनं करणीयम्, एतदर्थं प्रभाविकाः कठोराश्च विधयः अपि प्रवर्तनीयाः।

रोहितबजोरिया अवदत् यत् रासायनिककृषेः अपेक्षां न्यूनीकृत्य गोमयगोमूत्राधारितजैविककृषेः व्यापकः प्रचारः करणीयः। तेन सह शासकीयभवनेषु चिकित्सालयेषु च गोमयनिर्मितवर्णकस्य (पेन्ट्) तथा गोनाइलद्रव्यस्य उपयोगः प्रोत्साहनीयः आवश्यकश्च।

अभियानस्य संरक्षकः विश्वहिन्दूपरिषदः महामन्त्री अवधेशः तथा हस्ताक्षराभियानस्य गौरवयादवः संयुक्तरूपेण अवदताम् यत् देशस्य आरक्षिताः गोचरभूमयः अतिक्रमणात् विमोचनीयाः, तासां संरक्षणविकासार्थं च गोचरविकासमण्डलस्य स्थापना करणीया, येन भविष्ये गोवंशाय पर्याप्ताः प्राकृतिकसंसाधनाः उपलब्धाः भविष्यन्ति।

पत्रकारसम्मेलने अभियानस्य आगामिकार्ययोजना अपि प्रस्तुता। तदनुसारं २०२६ तमस्य वर्षस्य जुलैमासस्य २७ दिनाङ्के देशस्य सर्वेषां जिलाधिकारिणां माध्यमेन तथा अक्टोबरमासस्य २७ दिनाङ्के राज्यसचिवानां माध्यमेन च महामहिमराष्ट्रपतये, प्रधानमन्त्रिणे, राज्यपालेभ्यः, मुख्यमन्त्रिभ्यश्च चत्वारिंशत्कोटिहस्ताक्षरयुक्तं प्रार्थनापत्रं समर्प्य जनभावनायाः निवेदनं करिष्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani