Enter your Email Address to subscribe to our newsletters

अररिया 15 जुलाईमासः(हि.स.)।एकवृक्षः मातुः नाम्ना इति अभियानान्तर्गतं वृक्षारोपणकार्यक्रमः आयोजितः
फारबिसगञ्जक्षेत्रस्य मध्यविद्यालये घीवहायां बुधवासरे एकवृक्षः मातुः नाम्ना इत्यभियानान्तर्गतं वृक्षारोपणकार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य अध्यक्षतां विद्यालयस्य प्रधानाध्यापकः प्रदीपशर्मा अवहत्। अस्मिन् अवसरे विद्यालयपरिसरे विविधप्रजातीनां वृक्षपादपानां रोपणं कृतं तथा पर्यावरणसंरक्षणाय हरितपरिवेशस्य संवर्धनाय च सर्वैः संकल्पः गृहीतः।
प्रधानाध्यापकः प्रदीपशर्मा उक्तवान् यत् वृक्षाः मानवजीवनस्य आधारभूताः सन्ति। पर्यावरणसंरक्षणाय प्रत्येकेन जनेन न्यूनातिन्यूनम् एकः पादपः रोपणीयः, तस्य सम्यक् परिपालनमपि करणीयम्। तेन उक्तं यत् एकवृक्षः मातुः नाम्ना इत्यभियानं प्रकृतेः प्रति उत्तरदायित्वस्य निर्वहणस्य मातुः सम्मानस्य च प्रतीकमस्ति।
अस्मिन् कार्यक्रमे शिक्षकाः सचिनकुमाररजकः, प्रभातकुमारप्रवीणः, विजयकुमारः, मोहम्मदारमानः, राकेशकुमारः, अनुपमऋषिदेवः, रञ्जनऋषिदेवः तथा विद्यालयपरिवारस्य अन्ये सदस्याः अपि वृक्षारोपणं कृत्वा तेषां संरक्षणस्य संकल्पं गृहीतवन्तः।
Hindusthan Samachar / Dheeraj Maithani