Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 जुलाईमासः (हि.स.)।उपराष्ट्रपतिः राज्यसभायाः सभापतिः च सी पी राधाकृष्णनः बुधवासरे संसद्भवने राज्यसभायाः नवनिर्वाचितौ द्वौ सदस्यौ शपथं ग्राहयामास।
शपथग्रहणसमारोहे मध्यप्रदेशात् भारतीयजनतापक्षस्य सदस्यः रजनीशकुमारअग्रवालः तथा कर्नाटकात् काङ्ग्रेसदलस्य सदस्यः मंसूरअलीखानः राज्यसभासदस्यरूपेण शपथं जगृहतुः। रजनीशकुमारअग्रवालः हिन्दीभाषया, मंसूरअलीखानः तु आङ्ग्लभाषया शपथं जग्राह। शपथग्रहणानन्तरं उभौ सदस्यौ सभापतिं राधाकृष्णनम् अभिवादितवन्तौ। अस्मिन् अवसरे राज्यसभासचिवालयस्य वरिष्ठाधिकारिणः तथा अन्ये गणमान्यजनाः अपि उपस्थिताः आसन्।
------------
Hindusthan Samachar / Dheeraj Maithani