Enter your Email Address to subscribe to our newsletters

चेन्नई, 15 जुलाईमासः (हि.स.)। तमिलनाडुराज्यसरकारेण राज्यस्य शासकीयकार्यालयेषु भ्रष्टाचारस्य नियन्त्रणाय तथा शिकायतनिवारणव्यवस्थां अधिकप्रभाविनीं कर्तुं महत्त्वपूर्णः उपायः कृतः। सरकारेण उत्कोचस्य याचनां कुर्वतां अथवा उत्कोचं गृह्णतां शासकीयकर्मचारिणाम् अधिकारिणां च विरुद्धं शिकायतां पञ्जीकर्तुं समर्पिता व्हाट्सऐपसेवा प्रारब्धा। अधुना सामान्यनागरिकाः ९४९८१८०९३६ इति सङ्ख्यायां व्हाट्सऐपमाध्यमेन उत्कोचसम्बद्धां शिकायतां पञ्जीकर्तुं शक्नुवन्ति। एतेन सह सर्वेषु शासकीयकार्यालयेषु सार्वजनिकस्थानेषु च भ्रष्टाचारनिरोधकजनजागरणसम्बद्धाः सूचनापट्टाः अनिवार्यतया स्थापनीयाः इति निर्देशाः अपि निर्गताः।
अस्मिन् विषये तमिलनाडुराज्यस्य मुख्यसचिवः एम साईकुमारः सर्वेभ्यः जिलासमाहर्तृभ्यः, विभागाध्यक्षेभ्यः, वरिष्ठशासकीयाधिकारिभ्यः च विस्तृतं परिपत्रम् प्रेषितवान्। परिपत्रे स्पष्टतया निर्देशाः प्रदत्ताः यत् यदि कश्चित् शासकीयकर्मचारी अधिकारी वा कस्यचित् कार्यस्य प्रतिफलरूपेण उत्कोचं याचते, तर्हि नागरिकाः तत्क्षणमेव निर्दिष्टायां व्हाट्सऐपसङ्ख्यायां शिकायतां प्रेषयितुं शक्नुवन्ति, येन सम्बन्धिताः संस्थाः समये एव कार्यवाहीं कर्तुं शक्नुवन्ति।
सरकारेण निर्देशः प्रदत्तः यत् प्रत्येकस्मिन् शासकीयकार्यालये प्रमुखस्थाने उत्कोचस्य दानं ग्रहणं च उभयम् अपराधः अस्ति इति सन्देशयुक्ताः पट्टाः अनिवार्यतया स्थापनीयाः। एतदतिरिक्तं भ्रष्टाचारनिरोधकजनजागरणसम्बद्धाः सूचनापट्टाः अपि स्पष्टतया प्रदर्शनीयाः, येन सामान्यजनाः शिकायतापञ्जीकरणप्रक्रियायाः विषये सम्यक् अवगताः भवेयुः।
परिपत्रे उक्तं यत् पूर्वमपि एतादृशाः निर्देशाः निर्गताः आसन्, किन्तु अनेकेषु शासकीयकार्यालयेषु तेषाम् प्रभावीपालनं न कृतम्। अतः अस्मिन् वारे सर्वेभ्यः विभागाध्यक्षेभ्यः जिलासमाहर्तृभ्यः च आदेशानां पूर्णानुपालनं सुनिश्चितं कर्तुं तथा अनुपालनवृत्तान्तं राज्यसरकाराय समर्पयितुं निर्देशः प्रदत्तः।
सरकारेण एतदपि निर्देशितं यत् ९४९८१८०९३६ इति व्हाट्सऐपसङ्ख्या तथा भ्रष्टाचारनिरोधकसतर्कताविभागस्य आधिकारिकजालपुटस्य पता सर्वेषां शासकीयविभागानां जालपुटेषु प्रमुखतया प्रदर्शनीयः, येन नागरिकाः सुलभतया शिकायतां पञ्जीकर्तुं शक्नुवन्ति।
व्हाट्सऐपसेवायाः अतिरिक्तं सरकारेण शिकायतापञ्जीकरणस्य अन्ये विकल्पाः अपि उपलब्धाः कृताः। नागरिकाः डीवीएसी एट् एनआईसी डॉट् इन इति ईमेलपते स्वकीयां शिकायतां प्रेषयितुं शक्नुवन्ति। एतदतिरिक्तं ०४४ २२३२१०९०, ०४४ २२३२१०८५, ०४४ २२३१०९८९ तथा ०४४ २२३४२१४२ इति दूरभाषसङ्ख्यासु सम्पर्कं कृत्वा अपि भ्रष्टाचारसम्बद्धां शिकायतां पञ्जीकर्तुं शक्नुवन्ति।
सरकारेण एषा सुविधा अपि प्रदत्ता यत् शिकायतकर्ता भ्रष्टाचारनिरोधकसतर्कताविभागस्य कार्यालये संख्या २९३, एम के एन मार्गः, आलन्दूर, चेन्नैनगरम् ६०००१६ इत्यत्र स्वयम् उपस्थित्य अथवा डाकमाध्यमेन अपि स्वकीयां शिकायतां समर्पयितुं शक्नुवन्ति।
भ्रष्टाचारविरोधिनिर्देशानां प्रभावीक्रियान्वयनं सुनिश्चितं कर्तुं परिपत्रे जिलासमाहर्तृकार्यालयानां निरीक्षणप्रकोष्ठेभ्यः निगराणीसमितिभ्यः च सर्वेषां शासकीयकार्यालयानाम् आकस्मिकनिरीक्षणं कर्तुं निर्देशः प्रदत्तः। सरकारस्य उद्देश्यं एतत् यत् भ्रष्टाचारनिरोधकोपायाः केवलं पत्रेषु एव सीमिताः न स्युः, अपितु तेषां प्रभावीपालनम् अपि भवेत् तथा सामान्यनागरिकेभ्यः पारदर्शी उत्तरदायी च प्रशासनव्यवस्था उपलब्धा भवेत्।--------------
Hindusthan Samachar / Dheeraj Maithani