Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 15 जुलाईमासः (हि.स.)। उत्तराखण्डस्य भाजपादलेन हरेलापर्वणः निमित्तम् जुलैमासस्य १६ दिनाङ्कात् अगस्तमासस्य १५ दिनाङ्कपर्यन्तं ‘मातुः नाम्ना एकः वृक्षः’ इत्यभियानस्य अन्तर्गतं राज्यव्यापिरूपेण षट्लक्षाधिकाः पौधाः रोपयिष्यन्ते। अस्य अभियानस्य अन्तर्गतं राज्यस्य समस्तेषु ११,७२९ मतदानकेन्द्रेषु न्यूनातिन्यूनं पञ्चाशत् पौधानां रोपणस्य लक्ष्यं निर्धारितम् अस्ति।
भाजपादलस्य प्रदेशमहामन्त्री कुन्दनपरिहारः बुधवासरे प्रकाशितायां विज्ञप्तौ अवदत् यत् पर्यावरणसंरक्षणसंवर्धनयोः उद्देश्येन सञ्चाल्यमानेऽस्मिन् अभियाने मन्त्रिणः, सांसदाः, विधायकाः, नगरमहापौराः, जिलापञ्चायताध्यक्षाः, खण्डप्रमुखाः तथा अन्ये जनप्रतिनिधयः जनसहभागितया सह वृक्षारोपणकार्यक्रमेषु सहभागिनः भविष्यन्ति। अभियानस्य सफलसञ्चालनार्थं प्रदेश, जिला तथा मण्डलस्तरे समितयः गठिताः सन्ति।
तेन उक्तं यत् भाजपादलस्य प्रदेशाध्यक्षस्य महेन्द्रभट्टस्य अनुमत्याः अनन्तरं प्रदेशोपाध्यक्षः राजेन्द्रबिष्टः अभियानस्य प्रदेशसंयोजकरूपेण नियुक्तः। महिलामोर्चाध्यक्षा रुचिभट्टा, किसानमोर्चाध्यक्षः महेन्द्रसिंहनेगी तथा युवामोर्चाध्यक्षः विपुलमेंदोली प्रदेशसहसंयोजकरूपेण नियुक्ताः।
महामन्त्री परिहारः अवदत् यत् अभियानस्य अन्तर्गतं प्रत्येकस्मिन् मतदानकेन्द्रे न्यूनातिन्यूनं पञ्चाशत् पौधाः रोपयिष्यन्ते। वृक्षारोपणात् पूर्वं स्थाननिर्वाचनम्, गर्तखननम्, पौधानां व्यवस्थापनञ्च सुनिश्चितं भविष्यति। पौधानां संरक्षणपालनयोः उत्तरदायित्वमपि कार्यकर्तृषु निर्धारितं भविष्यति।
तेन सूचितं यत् सांसदाः स्वस्वसांसदीयक्षेत्रेषु न्यूनातिन्यूनं दश वृक्षारोपणकार्यक्रमान् आयोजयिष्यन्ति। विधायकाः, जिलापञ्चायताध्यक्षाः, नगरमहापौराः, नगरनिकायाध्यक्षाः तथा खण्डप्रमुखाश्च स्वस्वक्षेत्रेषु न्यूनातिन्यूनं पञ्चदश वृक्षारोपणकार्यक्रमान् सम्पादयिष्यन्ति।
प्रदेशाध्यक्षः महेन्द्रभट्टः कार्यकर्तॄन् सामान्यजनांश्च अभियाने उत्साहपूर्वकं सहभागित्वाय आहूतवान्। तेन उक्तं यत् हरेलापर्व उत्तराखण्डस्य प्रकृतिसंरक्षणस्य समृद्धपरम्परायाः प्रतीकम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः ‘मातुः नाम्ना एकः वृक्षः’ इत्यभियानं जनान्दोलनरूपेण विकसित्य सर्वैः पर्यावरणसंरक्षणे स्वयोगदानं दातव्यमिति अपि तेन प्रतिपादितम्।---
Hindusthan Samachar / Dheeraj Maithani