उत्तराखंड लोक सेवा आयोगे अध्यक्षस्य सदस्यानां च नियुक्तिः
देहरादूनम्, 15 जुलाईमासः (हि. स.) । उत्तराखण्डसरकारेण उत्तराखण्डलोकसेवाआयोगस्य अध्यक्षपदे सेवानिवृत्तः लेफ्टिनेण्टजनरल गजेन्द्रजोशी तथा सदस्यपदे डा. हेमचन्द्रपाण्डेय नियुक्तौ स्तः। एतत्सम्बन्धे कार्मिकसतर्कताविभागस्य अनुभाग ०४ इत्यनेन मङ्गलवासरस्
नियुक्ति का आदेश।


देहरादूनम्, 15 जुलाईमासः (हि. स.) ।

उत्तराखण्डसरकारेण उत्तराखण्डलोकसेवाआयोगस्य अध्यक्षपदे सेवानिवृत्तः लेफ्टिनेण्टजनरल गजेन्द्रजोशी तथा सदस्यपदे डा. हेमचन्द्रपाण्डेय नियुक्तौ स्तः।

एतत्सम्बन्धे कार्मिकसतर्कताविभागस्य अनुभाग ०४ इत्यनेन मङ्गलवासरस्य रात्रौ अधिसूचना प्रसारिता। कार्मिकसतर्कताविभागस्य सचिवः शैलेशबगोली उभयोः नियुक्त्योः सम्बन्धिनी अधिसूचना प्रसारितवान्।

अधिसूचनानुसारं सेवानिवृत्तः लेफ्टिनेण्टजनरल गजेन्द्रजोशी उत्तराखण्डलोकसेवाआयोगस्य अध्यक्षः तथा डा. हेमचन्द्रपाण्डेय आयोगस्य सदस्यः नियुक्तः अस्ति।

उभे नियुक्ती संविधानस्य अनुच्छेद ३१६ उपानुच्छेद १ अन्तर्गतं राज्यपालस्य प्रदत्ताधिकारस्य प्रयोगेण कृते स्तः। तयोः कार्यकालः कार्यभारग्रहणदिनाङ्कात् आरभ्य षड्वर्षपर्यन्तं द्विषष्टिवर्षीयवयःपरिपूर्तेः पर्यन्तं वा यत् पूर्वं भविष्यति तत्पर्यन्तं भविष्यति।

Hindusthan Samachar / Dheeraj Maithani