युवभ्यः मेलापकाः आयोज्यन्ते, परिसर-चयनमपि भवति - मुख्यमन्त्री योगी
लखनऊनगरम्, १५ जुलाईमासः (हि.स.)। विश्व-युव-कौशल-दिवस-२०२६ इत्यस्यावसरे बुधवासरे उत्तरप्रदेश-कौशल-विकास-अभियानेन, व्यावसायिक-शिक्षा-कौशल-विकास-उद्यमशीलता-विभागेन च लखनऊस्थिते इन्दिरा-गान्धी-प्रतिष्ठाने राज्यस्तरीयः कार्यक्रमः आयोजितः। अस्मिन्नवसरे म
मुख्यमंत्री का स्वागत करते मंत्री कपिल देव अग्रवाल


कार्यक्रम में बोलते हुए मुख्यमंत्री


लखनऊनगरम्, १५ जुलाईमासः (हि.स.)। विश्व-युव-कौशल-दिवस-२०२६ इत्यस्यावसरे बुधवासरे उत्तरप्रदेश-कौशल-विकास-अभियानेन, व्यावसायिक-शिक्षा-कौशल-विकास-उद्यमशीलता-विभागेन च लखनऊस्थिते इन्दिरा-गान्धी-प्रतिष्ठाने राज्यस्तरीयः कार्यक्रमः आयोजितः। अस्मिन्नवसरे मुख्यमन्त्रिणा योगी-आदित्यनाथेन कौशल-विकास-रोजगार-उद्यमशीलता-उद्योगसम्बद्धानां बहूनां योजनानां शुभारम्भः कृतः।

समारोहं सम्बोधयन् मुख्यमन्त्री योगी-आदित्यनाथः अवदत् यत् अधुना प्रदेशे यूनां कृते रोजगार-मेलापकाः आयोज्यन्ते, यूनां कृते परिसर-चयनमपि क्रियते। तेन उक्तं यत् युवान: एव उत्तरप्रदेशस्य शक्तिः सन्ति। उत्तरप्रदेशः अद्य देशे सर्वाधिक-वेगेन वर्धमाना अर्थव्यवस्था अभवत्।

मुख्यमन्त्री अवदत् यत् २०१७ वर्षात् पूर्वं तात्कालिकी सर्वकारः प्रदेशस्य कृते अशुभरूपा अभवत्। प्रदेशे असुरक्षायाः वातावरणम् आसीत्। तस्मिन् काले कन्यकाः, व्यापारिणश्च सुरक्षिताः नासन्। शासकीय-नियुक्तिषु एकस्यैव परिवारस्य एकाधिकारः आसीत्। धनं विना किमपि कार्यं न सम्पद्यते स्म। उत्तरप्रदेशः शनैः शनैः रुग्ण-राज्यत्वं गच्छति स्म। प्रकृतेः परमात्मनश्च कृपया सम्पन्नोऽपि अयं प्रदेशः रुग्णराज्यत्वेन परिगण्यते स्म। सुरक्षा-अभावात् प्रदेशे निवेशः न आगच्छति स्म। युवानः स्वभविष्यविषये चिन्तिताः आसन्। युवभ्यः रोजगार-अवसराः नासन्। पितृव्य-भ्रातृव्य-इत्यनयोः लुंठनं प्रवर्तते स्म। यूनां पुरतः स्वपरिचयस्य संकटम् आसीत्।

योगी अवदत् यत् या सर्वकारः यूनाम् उपेक्षां करोति, शिल्पिनः पलायनाय विवशान् करोति, तस्याः सर्वकारस्य समाजे स्थानं न भवेत्। अधुना नियुक्त्यर्थं न किमपि कथनम् अपेक्ष्यते। युवानः अधुना पलायनाय विवशाः न सन्ति।

व्यावसायिक-शिक्षा-कौशल-विकास-उद्यमशीलता-मन्त्री कपिलदेव-अग्रवालः अवदत् यत् उत्तरप्रदेशे युवभ्यः कौशलस्य माध्यमेन रोजगारः स्वरोजगारश्च प्राप्यते। तेन उक्तं यत् योगी-सर्वकारेण गत-नववर्षेषु विंशतिलक्षाधिकाः युवानः प्रशिक्षिताः, तेषु द्वादशलक्ष-पञ्चाशत्-सहस्राधिकेभ्यः रोजगारः प्रदत्तः। तेन सूचितं यत् २०२६–२७ वर्षे दशलक्ष-युवानां प्रशिक्षणस्य लक्ष्यं निर्धारितम् अस्ति।

मन्त्री अवदत् यत् ‘प्रवीण-परियोजना’ अन्तर्गतं विद्यालयीय-विद्यार्थिभ्यः कौशल-प्रशिक्षणं प्रदीयते। तथा च ‘शून्य-दारिद्र्य-योजनाया:’ अन्तर्गतं निर्धन-परिवाराणां युवभ्यः, महिलाभ्यः, दिव्याङ्गेभ्यश्च विशेष-रोजगार-अभियानं सञ्चाल्यते। अस्मिन् कार्यक्रमे राज्यमन्त्री कपिलदेव-अग्रवालः, विधानपरिषदः सदस्यौ मुकेश-शर्मा, पवनसिंह-चौहानः, विधायकः डॉ. नीरज-बोरा, अन्ये पदाधिकारीणः अधिकारीणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan