त्रिपुराराज्ये उत्कृष्टता-नवोन्मेष-केन्द्रस्य स्थापनार्थम् आईआईटी-खड्गपुरेण सह त्रिपक्षीय-सन्धि-ज्ञापनम् सम्पन्नम्
खड्गपुरम्, १५ जुलाईमासः (हि.स.)। पूर्वोत्तर-भारतस्य प्रौद्योगिकी-नवोन्मेष-पारिस्थितिकी-तन्त्रस्य सुदृढीकरणस्य दिशि भारतीय-प्रौद्योगिकी-संस्थानेन खड्गपुरेण, त्रिपुरा-सर्वकारस्य सूचना-प्रौद्योगिकी-विभागेन तथा सेनरिसा-टेक्नोलॉजीज-लिमिटेड् इत्यनेन सह त
त्रिपक्षीय समझौते के बाद उपस्थित गणमान्य अतिथि और प्रतिनिधि


त्रिपक्षीय समझौते के बाद उपस्थित गणमान्य अतिथि और प्रतिनिधि


खड्गपुरम्, १५ जुलाईमासः (हि.स.)। पूर्वोत्तर-भारतस्य प्रौद्योगिकी-नवोन्मेष-पारिस्थितिकी-तन्त्रस्य सुदृढीकरणस्य दिशि भारतीय-प्रौद्योगिकी-संस्थानेन खड्गपुरेण, त्रिपुरा-सर्वकारस्य सूचना-प्रौद्योगिकी-विभागेन तथा सेनरिसा-टेक्नोलॉजीज-लिमिटेड् इत्यनेन सह त्रिपुराराज्ये उत्कृष्टता-नवोन्मेष-केन्द्रस्य स्थापनार्थं त्रिपक्षीय-सन्धि-ज्ञापने हस्ताक्षराणि कृतानि।

आईआईटी-खड्गपुरेण बुधवासरे प्रकाशित-विज्ञप्तौ उक्तं यत् एतत् सन्धि-ज्ञापनं ‘डेस्टिनेशन-त्रिपुरा-बिजनेस-कॉन्क्लेव-२०२६’ इत्यस्य अवसरे सम्पन्नम्। अस्य उद्देश्यं कृत्रिम-बुद्धिमत्तायाः, डीप-टेक्नोलॉजी, अनुसन्धानस्य, कौशल-विकासस्य, नवोद्यम-प्रोत्साहनस्य तथा उद्योगाधारित-नवोन्मेषस्य संवर्धनम् अस्ति।

सन्धि-ज्ञापने आईआईटी-खड्गपुरस्य निदेशकेन प्रो.सुमन-चक्रवर्तिना, सेनरिसा-टेक्नोलॉजीज-लिमिटेड् इत्यस्य प्रबन्ध-निदेशकेन मुख्य-कार्यकारी-अधिकारिणा कुमार पी.साहेन तथा त्रिपुरा-सर्वकारस्य सूचना-प्रौद्योगिकी-निदेशकेन जेया-रागुल-गेशन-बी. इत्यनेन हस्ताक्षराणि कृतानि।

समझौता-पत्रस्य आदान-प्रदानं भारत-सर्वकारस्य मुख्य-आर्थिक-परामर्शदात्रा डॉ. वी.-अनन्त-नागेश्वरन्, त्रिपुराराज्यस्य मुख्य-सचिवेन जितेन्द्र-कुमार-सिन्हा-इत्यनेन, उद्योग-वाणिज्य-तथा-सूचना-प्रौद्योगिकी-सचिवेन किरण-गिट्टे तथा अन्येषां गणमान्यानां व्यक्तिनाम् उपस्थितौ सम्पन्नम्।

प्रस्तावितम् उत्कृष्टता-नवोन्मेष-केन्द्रम् अत्याधुनिक-अनुसन्धानस्य, उत्तरदायि-कृत्रिम-बुद्धिमत्तायाः, प्रौद्योगिकी-सहकार्यस्य, उद्यमिता-संवर्धनस्य तथा उद्योग-शैक्षणिक-समन्वयस्य प्रमुख-मञ्चरूपेण विकसितं भविष्यति। अनेन विद्यार्थिभ्यः, शोधकर्तृभ्यः, नवप्रवर्तकेभ्यः, उद्यमिभ्यश्च संयुक्त-अनुसन्धानस्य, प्रौद्योगिकी-विकासस्य तथा क्षमता-निर्माणस्य अवसराः प्रदास्यन्ते।

समझौतेन कृत्रिम-बुद्धिमत्ता, यन्त्र-शिक्षणम्, डीप-टेक्नोलॉजी तथा डिजिटल-परिवर्तनम् इत्यादिषु क्षेत्रेषु अन्तर्विषयक-अनुसन्धानस्य नवोन्मेषस्य च प्रोत्साहनं भविष्यति। शीघ्र-विकासशील-प्रौद्योगिकी-क्षेत्राणां आवश्यकतानुरूपं दक्ष-मानव-संसाधन-निर्माणे विशेषं बलं प्रदास्यते।

एतत् केन्द्रं नवोद्यमेभ्यः उद्यमिभ्यश्च इनक्यूबेशन-साहाय्यं, प्रौद्योगिकी-परामर्शं, मार्गदर्शनं तथा उद्योगैः सह सम्पर्क-स्थापने महत्त्वपूर्णां भूमिकां निर्वहिष्यति। अनेन त्रिपुराराज्ये समग्र-पूर्वोत्तर-भारते च प्रौद्योगिकी-आधारित-उद्यमिता-नवोन्मेषयोः नूतना गतिः प्राप्स्यते इति अपेक्षा वर्तते।

आईआईटी-खड्गपुरेण त्रिपुराराज्यस्य मुख्यमन्त्रिणः प्रो. (डॉ.) माणिक-साहस्य दूरदर्शी-नेतृत्वाय तथा पूर्वोत्तर-क्षेत्र-विकास-मन्त्रिणः ज्योतिरादित्य-एम.-सिन्धियायाः, पूर्वोत्तर-क्षेत्र-विकास-मन्त्रालयस्य च सहयोगाय कृतज्ञता व्यक्ता।

Hindusthan Samachar / Divya Ranjan