कृषकाणां ४८,००० कोटि-रूप्यकाणां विद्युत्-शुल्क-अवशिष्टां राशिं क्षमां करिष्यामः - मुख्यमन्त्री देवेन्द्र-फडणवीसः
मुम्बईनगरम्, १५ जुलाईमासः (हि.स.)। महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र-फडणवीसः बुधवासरे मुम्बई-नगरे उक्तवान् यत् राज्यसर्वकारः शीघ्रमेव कृषकाणां ४८,००० कोटि-रूप्यकाणां विद्युत्-शुल्कस्य अवशिष्ट-राशेः एकमुश्त-परिहारस्य निर्णयं करिष्यति। महाराष्ट्र
फाईल फोटो:मुख्यमंत्री देवेंद्र फडणवीस


मुम्बईनगरम्, १५ जुलाईमासः (हि.स.)। महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र-फडणवीसः बुधवासरे मुम्बई-नगरे उक्तवान् यत् राज्यसर्वकारः शीघ्रमेव कृषकाणां ४८,००० कोटि-रूप्यकाणां विद्युत्-शुल्कस्य अवशिष्ट-राशेः एकमुश्त-परिहारस्य निर्णयं करिष्यति।

महाराष्ट्रे कृषकेभ्यः द्विलक्ष-रूप्यक-पर्यन्तं ऋण-मोचनस्य घोषणायाः अनन्तरं बुधवासरे मुम्बई-स्थिते यशवन्तराव-चव्हाण-सभागृहे मुख्यमन्त्री देवेन्द्र-फडणवीसः सम्मानितः। अस्मिन् अवसरे स्वीय-सम्बोधने सः अवदत् यत् राज्यसर्वकारेण सार्ध-सप्त-अश्वशक्ति-पर्यन्तानां कृषिसिञ्चन-पम्प-इत्यादिनां विद्युत्-शुल्कं क्षमा कृता अस्ति। किन्तु बहूनां कृषकाणां नाम्नि पूर्वबकाया-राशिः अवशिष्टा अस्ति, अतः तेषां नूतन-विद्युत्-संयोजन-प्राप्तौ कठिनता भवति। एतस्मात् कारणात् राज्यसर्वकारः कृषकाणां विद्युत्-शुल्कस्य अवशिष्ट-राशिं एकवारमेव परिहर्तुं शीघ्रं निर्णयं करिष्यति।

मुख्यमन्त्री फडणवीसः अवदत् यत् ‘पुण्यश्लोक-अहिल्यादेवी-होलकर-शेतकरी-ऋणमुक्ति-योजना’ उद्घोषिता अस्ति, यस्याः माध्यमेन राज्यस्य ५६ लक्ष-कृषकाः ३६,५८५ कोटि-रूप्यकाणां लाभं प्राप्स्यन्ति। ये कृषकाः ‘ज्योतिराव-फुले-शेतकरी-ऋणमुक्ति-योजनाया:’ अन्तर्गतं ५०,००० रूप्यकाणां लाभं प्राप्तवन्तः, तेषां कृते नूतन-योजनायां ५०,००० रूप्यकाणां सीमाबन्धनं निरस्तम् अस्ति। अधुना ते द्विलक्ष-रूप्यक-पर्यन्तं ऋण-शिथिलतां प्राप्स्यन्ति। नियमित-ऋण-परिशोधक-कृषकाणां कृते २०२६–२७ तमवर्षे ऋणं स्वीकृत्य समये परिशोधनस्य शर्तोऽपि निरस्ता अस्ति।

तेन उक्तं यत् राज्यसर्वकारः धारणीय-कृषिक्षेत्रे विशालं निवेशं करोति। ऋण-मोचनस्य अतिरिक्तं सिञ्चन-परियोजनासु, जल-सञ्चये, शीत-भण्डारणेषु, मूल्य-वर्धने, प्रसंस्करण-उद्योगेषु तथा विपणन-संयोजने सहस्र-कोटि-रूप्यकाणां व्यवस्था कृता अस्ति।

राज्ये कृषकेभ्यः द्विलक्ष-रूप्यक-पर्यन्तं ऋण-मोचनस्य निर्णयस्य निमित्तं यशवन्तराव-चव्हाण-केन्द्रे मुख्यमन्त्री देवेन्द्र-फडणवीसः तुलसी-मालया, विठ्ठलस्य प्रतिमया तथा वृषभयानस्य प्रतिकृत्या सम्मानितः। अस्मिन् अवसरे कृषिमन्त्री दत्तात्रेय-भरणे अपि सम्मानितः। कार्यक्रमे आदिवासी-विकासमन्त्री डॉ. अशोक-वुइके, भाजपा-प्रदेशाध्यक्षः रवीन्द्र-चव्हाणः, प्रवीण-दारकेकरः, रणधीर-सावरकरः, संजय-कुटे, अनिल-बोंडे तथा राज्यस्य विभिन्न-भागेभ्यः बहुसंख्यकाः कृषकाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan