Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 15 जुलाईमासः (हि.स.)।
विश्वप्रसिद्धायाः श्रीजगन्नाथरथयात्रायाः एकदिनपूर्वं बुधवासरे श्रीजगन्नाथमन्दिरप्रशासनेन भगवानः श्रीजगन्नाथस्य, भगवानः बलभद्रस्य, देवीसुभद्रायाः च सार्वजनिकदर्शनं निरुद्धम्। एषः निर्णयः रथयात्रायाः अन्तिमतैयारीणां पारम्परिकानुष्ठानानां च सुचारुसञ्चालनं दृष्ट्वा गृहीतः। अद्य श्रीमन्दिरपरिसरे रथयात्रासम्बद्धानि महत्त्वपूर्णानि धार्मिकानुष्ठानानि सम्पन्नानि भविष्यन्ति। प्रातःकाले मन्दिरस्य दैनिकपरम्परानुसारं गोपालबल्लभ तथा सकालधूप इति विधयः सम्पन्नाः। ततः परं पारम्परिकम् आज्ञामालाबीजे इत्यनुष्ठानं भविष्यति, यस्मिन् त्रयाणां देवतानाम् आज्ञामालाः सेवायतैः भव्यशोभायात्रया सह रथान् प्रति नीयन्ते।
आज्ञामालाबीजे अनुष्ठानानन्तरं त्रीणि रथानि रथखलात् आकृष्य श्रीमन्दिरस्य सिंहद्वारस्य पुरतः स्थापयिष्यन्ते। परम्परानुसारं प्रथमं भगवानः श्रीजगन्नाथस्य नन्दीघोषरथः, ततः देवीसुभद्रायाः दर्पदलनरथः, अन्ते भगवानः बलभद्रस्य तालध्वजरथः निर्धारितस्थाने आनयिष्यते। रथानाम् एषा पारम्परिकस्थापना रथयात्रायाः अन्तिमतैयारी इति मन्यते।
गुरुवासरे भगवान् श्रीजगन्नाथः, भगवान् बलभद्रः, देवी सुभद्रा च स्वस्वभव्यरथेषु विराजमानाः भूत्वा श्रीगुण्डिचामन्दिरं प्रति प्रस्थिताः भविष्यन्ति। अस्मिन् ऐतिहासिके धार्मिके च महापर्वणि देशविदेशेभ्यः लक्षशः श्रद्धालूनां सहभागिता भविष्यतीति सम्भावना वर्तते।
---------------
Hindusthan Samachar / Dheeraj Maithani