यावद् अधिकं विधायकाः अध्ययनं करिष्यन्ति, तावद् अधिकं प्रभावी-रीत्या जनतायाः स्वरं सदसि उत्थापयितुं शक्नुवन्ति - ओम-बिरला
– राजस्थान-विधानसभायाः अमृत-महोत्सवः जयपुरम्, १५ जुलाईमासः (हि.स.)। लोकसभाध्यक्षः ओम्-बिरला बुधवासरे अवदत् यत् विधानसभैव सम्पूर्ण-प्रदेशस्य कठिनताः प्रत्यक्षतया ज्ञातुं सर्वाधिकं समर्थं माध्यमम् अस्ति। अत्र सामान्य-जनजीवनस्य समस्याः ज्ञात्वा तासां
राजस्थान विधानसभा के 75 वर्ष पूरे होने पर अमृत महोत्सव आयोजित


राजस्थान विधानसभा के 75 वर्ष पूरे होने पर अमृत महोत्सव आयोजित


– राजस्थान-विधानसभायाः अमृत-महोत्सवः

जयपुरम्, १५ जुलाईमासः (हि.स.)। लोकसभाध्यक्षः ओम्-बिरला बुधवासरे अवदत् यत् विधानसभैव सम्पूर्ण-प्रदेशस्य कठिनताः प्रत्यक्षतया ज्ञातुं सर्वाधिकं समर्थं माध्यमम् अस्ति। अत्र सामान्य-जनजीवनस्य समस्याः ज्ञात्वा तासां समाधानस्य मार्गं प्रशस्तं कर्तुं शक्यते।

राजस्थान-विधानसभायाः पञ्चसप्तति-वर्षपूर्त्याः निमित्तम् आयोजितस्य अमृत-महोत्सवस्य उद्घाटन-समारोहे सम्बोधयन् बिरला युवा-विधायकान् आहूतवान् यत् सदनस्य मध्ये आगत्य कोलाहलं कृत्वा कश्चन महान् नेता न भवति। सदसि प्रदत्तानि सार्थक-भाषणानि तर्कपूर्ण-विमर्शाश्च एव जनप्रतिनिधेः वास्तविकं परिचयं निर्मान्ति। राजस्थान-विधानसभा लोकतान्त्रिक-संस्काराणां, संवादस्य, सहमतेश्च महती पाठशाला आसीत्। विधायकाः यावदधिकम् अध्ययनं करिष्यन्ति, श्रोष्यन्ति, विषयाणां गाम्भीर्यं च अवगमिष्यन्ति, तावदधिकं प्रभावी-रीत्या जनतायाः स्वरं सदसि उत्थापयितुं शक्नुवन्ति। सदसि प्रदत्तानि भाषणानि बहूनि वर्षाणि यावत् पठ्यन्ते स्मर्यन्ते च, अतः जनप्रतिनिधिभिः मर्यादित-तथ्यपरक-विमर्शस्य परम्परा अग्रे नेतव्या।

लोकसभाध्यक्षः अवदत् यत् सर्वकारस्य विधायक-आलोचना लोकतन्त्रं सुदृढं करोति तथा विधानसभा जनसमस्यानाम् उत्थापनाय सर्वाधिकं प्रभावी मञ्चः अस्ति। प्रश्नाः यावन्तः सार्थकाः भविष्यन्ति, शासनम् अपि तावदेव उत्तरदायी भविष्यति। स्वस्य प्रथम-पाठशालारूपेण विधानसभां निर्दिशन् सः अवदत् यत् अत्रैव तेन लोकतान्त्रिक-संस्काराः संसदीय-मर्यादाश्च अधिगताः। अध्यक्ष-पदस्य गरिमां रक्षितुं सर्वासु परिस्थितिषु संयमः, सहजता, निष्पक्षता च पीठासीन-अधिकारेण अवश्यं धारणीया इति तेन बलं दत्तम्।

बिरला युवा-सदस्येभ्यः उक्तवान् यत् वरिष्ठ-विधायकेभ्यः शिक्षां ग्रहीतुं प्रवृत्तिः सदा धारणीया। सदसि अधिककालं तिष्ठन्तु, स्वमतं निवेदयितुं पूर्वम् अनन्तरं च अन्येषां सदस्याणाम् अपि वचनानि शृण्वन्तु। राजस्थानस्य महान् विधानसभया देशाय अनेके महान् नेतारः प्रदत्ताः, राष्ट्रस्य प्रगत्यां महत्त्वपूर्णा भूमिका च निर्वहिता। तस्य दृढः विश्वासः अस्ति यत् भविष्येऽपि अस्याः सभायाः परम्पराः, विधायी-रीतयः, नीतयश्च राष्ट्रस्य प्रतिष्ठां लोकतन्त्रस्य सुदृढीकरणं च अग्रे नेष्यन्ति।

बिरला अवदत् यत् राजस्थानं केवलं वीराणां भूमिः न, अपितु लोकतान्त्रिक-मूल्यानां महती धरापि अस्ति। राजस्थानस्य लोकतान्त्रिक-चेतना केवलं पञ्चसप्ततिवर्षीय-इतिहासः न, अपितु सहस्रवर्षीय-परम्परायाः धरोहरः अस्ति। गत-सार्ध-सप्त-दशकेषु अस्याः सभायाः अनेकैः ऐतिहासिक-विधेयकैः, दूरदर्शी-विमर्शैः, जनहित-निर्णयैश्च लोकतन्त्रं सुदृढीकृतम्।

अस्मिन्नवसरे मुख्यमन्त्री भजनलाल-शर्मा अवदत् यत् सदनस्य समयः जनहिताय उपयुज्येत तथा विधायकेभ्यः पर्याप्तं समयं दत्त्वा जनसमस्यानां समाधानाय ध्यानं दातव्यम्। लोकतन्त्रे सर्वकाराः परिवर्तन्ते, किन्तु जनसेवायाः संकल्पः कदापि न परिवर्तते। संविधानम्, सुशासनम्, जनकल्याणम्, विकासश्च सर्वकारस्य सर्वोच्च-प्राथमिकताः सन्ति।

तेन उक्तं यत् राजस्थान-विधानसभायाः गौरवशाली इतिहासः सर्वेषां गर्वस्य विषयः अस्ति। १९५२ तमवर्षात् आरभ्य अद्यपर्यन्तं पूर्व-वर्तमान-जनप्रतिनिधिभिः राज्यस्य विकासस्य दृढ: आधार: स्थापित:। लोकतन्त्रम् अस्माकम् श्रद्धा जनाकाङ्क्षाणां च उत्सवः अस्ति। राजस्थानस्य अष्ट-कोटि-जनानाम् अपेक्षासु सफलतया स्थितुं प्रत्येकस्य जनप्रतिनिधेः दायित्वम् अस्ति। सत्तापक्ष-विपक्षाभ्यां जनहित-विषयेषु मिलित्वा कार्यं करणीयम्; मतभेदाः सन्तु, किन्तु जनहितं सर्वदा सर्वोपरि भवेत् इति तेन आह्वानं कृतम्।

मुख्यमन्त्री नूतनवंशं संसदीय-परम्पराभिः लोकतान्त्रिक-मूल्यैश्च संयोजयितुं आवश्यकतायाः उपरि बलम् अददात्। पूर्व-जनप्रतिनिधीनाम् अनुभवः अग्रिम-वंशानां कृते प्रेरणास्रोतः अस्ति। जनविश्वासस्य संरक्षणं प्रत्येकं जनप्रतिनिधेः परमं दायित्वम् इति अपि तेन उक्तम्।

Hindusthan Samachar / Divya Ranjan