अहमदाबादे भगवतो जगन्नाथस्य मंगल आरत्यां सम्मिलितोऽमित शाहः, परिवारेण सहितः अकरोद्दर्शनम्
अहमदाबादम्, 16 जुलाईमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः गुरुवासरे आषाढीबीजपर्वणः अवसरे आयोजितायाः भगवान् जगन्नाथस्य एकोनपञ्चाशदधिकशततमायाः रथयात्रायाः प्रारम्भात् पूर्वम् अहमदाबादनगरस्थिते प्रसिद्धजगन्नाथमन्दिरे परिवारसहितः मङ्गलआरत्यां सह
भगवान जगन्नाथ की मंगल आरती में शामिल हुए अमित शाह


अहमदाबादम्, 16 जुलाईमासः (हि.स.)।

केन्द्रीयगृहमन्त्री अमितशाहः गुरुवासरे आषाढीबीजपर्वणः अवसरे आयोजितायाः भगवान् जगन्नाथस्य एकोनपञ्चाशदधिकशततमायाः रथयात्रायाः प्रारम्भात् पूर्वम् अहमदाबादनगरस्थिते प्रसिद्धजगन्नाथमन्दिरे परिवारसहितः मङ्गलआरत्यां सहभागितां कृतवान् तथा श्रद्धया भगवान् जगन्नाथस्य भगिन्याः सुभद्रायाः भ्रातुः बलभद्रस्य च दर्शनपूजनं कृतवान्। अस्मिन्नवसरे गुजरातराज्यस्य गृहराज्यमन्त्री हर्षसङ्घवी अपि उपस्थितः आसीत्।

देशस्य सर्वत्र कोटिशः श्रद्धालूनां भगवान् जगन्नाथे गाढा श्रद्धा विद्यते। परम्परानुसारं प्रतिवर्षम् आषाढीबीजस्य पावनावसरे भगवान् जगन्नाथः भगिनी सुभद्रा भ्राता बलभद्रश्च स्वभक्तानां दर्शनार्थं नगरभ्रमणाय निर्गच्छन्ति।

रथयात्रायाः प्रारम्भात् पूर्वम् अमितशाहः परिवारसहितः मन्दिरे पूजार्चनां कृत्वा देशस्य प्रदेशस्य च सुखसमृद्धिकल्याणयोः कामनामकरोत्। अस्मिन् पावनावसरे जगन्नाथमन्दिरस्य महन्तः दिलीपदासजी, सन्तमहन्तः तथा बहुसंख्यकाः श्रद्धालवः अपि उपस्थिताः आसन्। अहमदाबादस्य जगन्नाथरथयात्रा न केवलं नगरस्य अपितु समग्रगुजरातस्य श्रद्धायाः सांस्कृतिकविरासतायाः च महत्त्वपूर्णः प्रतीकः मन्यते।

आषाढीबीजं किम्?

आषाढीबीज मुख्यतया गुजरातराज्यस्य कच्छप्रदेशस्य नववर्षोत्सवः अस्ति। एषः हिन्दूपञ्चाङ्गानुसारम् आषाढमासस्य शुक्लपक्षस्य द्वितीयातिथौ आचर्यते। अयं उत्सवः वर्षर्तोः आगमनस्य कृषकाणां बीजवापनस्य च प्रतीकः अस्ति, यस्मिन् उत्तमवृष्टये समृद्धशस्याय च प्रार्थना क्रियते।

अयं दिवसः कच्छीसमुदायस्य कृते नववर्षस्य आरम्भः मन्यते। कृषकाः अस्मिन् दिने भूमेः आर्द्रतां वायोः दिशां वा निरीक्ष्य आगामिषु मासेषु वर्षायाः स्वरूपस्य अनुमानं कुर्वन्ति। अस्य सांस्कृतिकमहत्त्वमपि विद्यते। अस्मिन् दिने जनाः पारम्परिकभोजनानि निर्मान्ति, नृत्यं कुर्वन्ति तथा स्वपरिवारजनान् प्रियजनांश्च नववर्षस्य शुभकामनाभिः अभिनन्दन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani