बिम्सटेक एनएसए की 5वीं बैठक में सुरक्षा, आर्थिक सहयोग पर जोर, डोभाल बोले- सहयोग बढ़ाना समय की मांग
नव दिल्ली, 16 जुलाईमासः (हि.स.)।राष्ट्रियसुरक्षासलाहकारः अजीतडोभालः गुरुवासरे आयोजितां बङ्गालोपसागरबहुक्षेत्रीयप्राविधिकआर्थिकसहयोगपहलस्य बिम्सटेकदेशानां राष्ट्रीयसुरक्षाप्रमुखानां पञ्चमीम् उपवेशनम् भारतस्य कृते अत्यन्तमहत्त्वपूर्णम् इति उक्तवान्।
नई दिल्ली में बिम्सटेक राष्ट्रीय सुरक्षा प्रमुखों की 5वीं बैठक में एनएसए अजीत डोभाल।


नव दिल्ली, 16 जुलाईमासः (हि.स.)।राष्ट्रियसुरक्षासलाहकारः अजीतडोभालः गुरुवासरे आयोजितां बङ्गालोपसागरबहुक्षेत्रीयप्राविधिकआर्थिकसहयोगपहलस्य बिम्सटेकदेशानां राष्ट्रीयसुरक्षाप्रमुखानां पञ्चमीम् उपवेशनम् भारतस्य कृते अत्यन्तमहत्त्वपूर्णम् इति उक्तवान्। तेन उक्तं यत् वर्तमानवैश्विकपरिदृश्ये क्षेत्रीयसहयोगस्य समन्वयस्य च संवर्धनं कालस्य अपेक्षा अस्ति। अयं मञ्चः भारतस्य नेबरहुड फर्स्ट नीति, एक्ट ईस्ट नीति, महासागर विजन च प्रतिनिधित्वं करोति तथा सदस्यदेशैः उद्भवन्तीनां चुनौतीनां निराकरणार्थं निर्णायकानि पदानि स्वीकरणीयानि।

डोभालः अत्र बिम्सटेकदेशानां राष्ट्रीयसुरक्षाप्रमुखानां पञ्चमोपवेशनस्य उद्घाटनसत्रे अवदत् यत् वयं कठिनवैश्विकपरिदृश्ये समागच्छामः, यत्र संघर्षाः, भूराजनीतिकानिश्चितताः, प्राविधिकव्यवधानानि च वर्धन्ते। वैश्विकापूर्तिशृङ्खलासु उत्पन्नविघ्नैः सर्वेषां देशानां कृते आर्थिककठिनताः समुत्पन्नाः। एवंकाले सदस्यदेशैः समानहितानां कृते सहकार्यं करणीयम् तथा समस्याः सामूहिकप्रयत्नैः समाधानं नेतव्याः। बिम्सटेक तीव्रगत्यावर्धमानयोः द्वयोः क्षेत्रयोः संयोजकः अस्ति तथा प्रायः एकसप्ततिदशलक्षकोटिजनानां प्रतिनिधित्वं करोति, ये विश्वजनसंख्यायाः द्वाविंशतिशतांशाः सन्ति। अस्य संयुक्तसकलदेशीयोत्पादनम् प्रायः पञ्च ट्रिलियन अमेरिकीडॉलरपरिमितम् अस्ति।

राष्ट्रीयसुरक्षासलाहकारः अवदत् यत् बङ्गालोपसागरः केवलं भौगोलिकदृष्ट्या एव न, अपितु सहस्रवर्षपरम्परागतया साझासभ्यतासांस्कृतिकविरासतया अपि सदस्यदेशान् संयोजयति। एतेषाम् ऐतिहासिकसम्बन्धानाम् आधारेण बिम्सटेकेन विविधेषु क्षेत्रेषु सुदृढः सहयोगः विकसितः। तेन उक्तं यत् अस्माकं लक्ष्यं सर्वेषां जनानां कृते सामूहिकसमृद्धियुक्तं सुदृढं च भविष्यनिर्माणम् अस्ति।

डोभालः अवदत् यत् बिम्सटेकदेशैः आतङ्कवादः, अन्तरराष्ट्रीयसङ्गठितापराधः, साइबरसंकटानि, सामुद्रिकसुरक्षा च इत्यादिषु चुनौतीषु सहयोगः सुदृढीकृतः अस्ति तथा भविष्ये उद्भवन्तीनाम् अन्यासां चुनौतीनामपि सामूहिकरूपेण सामना कर्तुं ते सज्जाः सन्ति। क्षेत्रीयसुरक्षा, सम्पर्कविस्तारः, क्षमतानिर्माणम्, आर्थिकसहयोगस्य दीर्घकालिकलक्ष्याणि च अस्माकं सामूहिकप्रयत्नानां मार्गदर्शनं करिष्यन्ति।

विदेशमन्त्रालयेन उक्तं यत् अस्मिन् उपवेशने राष्ट्रीयसुरक्षासलाहकारः अजीतडोभालः बाङ्ग्लादेशस्य, भूटानस्य, म्यानमारस्य, नेपालस्य, श्रीलङ्कायाः, थाइलैण्डस्य च राष्ट्रीयसुरक्षाप्रमुखानाम् आतिथ्यं कृतवान्। बिम्सटेकमहासचिवेन सुरक्षाक्षेत्रे सहयोगस्य स्थितेः विस्तृतविवरणं प्रस्तुतं तथा सदस्यदेशान् विविधेषु क्षेत्रेषु अभवतां प्रगतेः विषये अवगतान् कृतवान्। उपवेशने आतङ्कवादस्य सङ्गठितापराधस्य च निवारणम्, साइबरसुरक्षा, सामुद्रिकसुरक्षा, ऊर्जासुरक्षा, सम्पर्कविस्तारः, आपदाप्रबन्धनस्य दक्षता, नवीनचुनौतीनां व्यावहारिकसमाधानानि च विषये चर्चा अभवत्।

उपवेशने मानवीयसाहाय्यस्य आपदाराहतकार्यस्य च सामुद्रिकघटकाय दिङ्निर्देशाः स्वीकृताः। एते दिङ्निर्देशाः सदस्यदेशान् क्षेत्रे राहतकार्याणि शीघ्रतया सम्पादयितुं सहायं करिष्यन्ति। सहैव सामुद्रिकविधिपालनसंस्थानां मध्ये समुद्रे सम्पर्ककाले आचरणसम्बद्धाः मार्गदर्शकसिद्धान्ताः अपि अनुमोदिताः। एते सिद्धान्ताः सदस्यदेशानां मध्ये सामुद्रिकगतिविधिषु सुरक्षां पूर्वानुमेयतां च वर्धयिष्यन्ति।

बिम्सटेक आगामिवर्षे स्वीयां त्रिंशत्तमीं वर्षगाठाम् आचरिष्यति। अस्मिन्नवसरे सदस्यदेशैः क्षेत्रीयसुरक्षायाः सुदृढीकरणाय, संस्थागतक्षमतावर्धनाय, विविधसुरक्षाचुनौतीनां सामनार्थं सहयोगस्य ज्ञानसाझाकरणस्य च अधिकविस्ताराय स्वसंकल्पः पुनरुच्चारितः।

-------------

Hindusthan Samachar / Dheeraj Maithani