अद्य मुरादाबादम् आगमिष्यति मुख्य निर्वाचन आयुक्तः ज्ञानेश कुमारः
मुरादाबादम्, 16 जुलाईमासः (हि.स.)। मुख्यनिर्वाचनायुक्तः ज्ञानेशः कुमारः गुरुवासरे मुरादाबादनगरम् आगमिष्यति। सः निर्वाचनकार्यार्थं नियुक्तैः पर्यवेक्षकैः तथा मतदानकेन्द्रस्तरीयाधिकारिभिः (बीएलओ) सह तीर्थङ्करमहावीरविश्वविद्यालये संवादं करिष्यति। म
मुख्य निर्वाचन आयुक्त ज्ञानेश कुमार


मुरादाबादम्, 16 जुलाईमासः (हि.स.)।

मुख्यनिर्वाचनायुक्तः ज्ञानेशः कुमारः गुरुवासरे मुरादाबादनगरम् आगमिष्यति। सः निर्वाचनकार्यार्थं नियुक्तैः पर्यवेक्षकैः तथा मतदानकेन्द्रस्तरीयाधिकारिभिः (बीएलओ) सह तीर्थङ्करमहावीरविश्वविद्यालये संवादं करिष्यति।

मुरादाबादजनपदस्य जिलाधिकारी डॉ. राजेन्द्रः पैन्सिया इत्यनेन उक्तं यत् मुख्यनिर्वाचनायुक्तः प्रातः ११ वादने दिल्लीमार्गस्थितं होलीडे रीजेन्सी-नामकं विश्रामगृहम् आगमिष्यति। तत्र अर्धघण्टां स्थित्वा सः तीर्थङ्करमहावीरविश्वविद्यालयं गमिष्यति। ततः परं सः मध्याह्ने १२:३० वादने देहलीनगराय प्रस्थास्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani