छत्तीसगढविधानसभायाः अद्य चतुर्थदिनं, 63 ध्यानाकर्षण प्रस्तावेषु गूंजिष्यति सदनम्
रायपुरम् 16 जुलाईमासः (हि.स.)। छत्तीसगढविधानसभायाः वर्षाकालीनसत्रस्य अद्य गुरुवासरे चतुर्थः दिवसः अत्यन्तमहत्त्वपूर्णः भविष्यति। प्रश्नकालात् आरभ्य विधायिकाकार्यवाह्यन्तं शासनपक्षस्य विपक्षस्य च मध्ये तीव्रवादविवादस्य सम्भावना वर्तते। अद्य सदसि
छत्तीसगढ़ विधानसभा


रायपुरम् 16 जुलाईमासः (हि.स.)।

छत्तीसगढविधानसभायाः वर्षाकालीनसत्रस्य अद्य गुरुवासरे चतुर्थः दिवसः अत्यन्तमहत्त्वपूर्णः भविष्यति। प्रश्नकालात् आरभ्य विधायिकाकार्यवाह्यन्तं शासनपक्षस्य विपक्षस्य च मध्ये तीव्रवादविवादस्य सम्भावना वर्तते। अद्य सदसि त्रिषष्टिः ध्यानाकर्षणप्रस्तावाः उपस्थापिताः भविष्यन्ति, अष्टौ विधायकाः स्वीययाचिकाश्च प्रस्तुतयिष्यन्ति।

प्रश्नकाले मन्त्री राजेशः अग्रवालः, रामविचारः नेतामः तथा ओपी चौधरी स्वस्वविभागसम्बद्धप्रश्नानां उत्तराणि दास्यन्ति। अपरं मुख्यमन्त्री विष्णुदेवः सायः, मन्त्री लक्ष्मी राजवाडे तथा दयालदासः बघेलः सदनपटलस्य उपरि विविधपत्राणि स्थापयिष्यन्ति।

अद्यतनकार्यवाह्यां छत्तीसगढस्य ‘ईज् ऑफ डूइङ्ग् बिजनेस’ विधेयकस्य पारणस्य सम्भावना वर्तते। तदनन्तरम् उद्योगमन्त्री औद्योगिकनिवेशप्रोत्साहन(संशोधन)विधेयकं सदसि प्रस्तुतयिष्यति। गृहमन्त्री विजयः शर्मा अग्निशमनआपत्कालीनसेवा(संशोधन)विधेयकं पारणार्थं सदसि उपस्थापयिष्यति।

राजनीतिकवातावरणं तदा अधिकं उष्णं भवितुमर्हति, यदा विधायकः सुशान्तः शुक्लः सार्वजनिकवितरणप्रणालीसम्बद्धविषये शासनं प्रश्नैः परितः आवेष्टयिष्यति। अस्मिन् विषये खाद्यमन्त्री दयालदासः बघेलः शासनस्य पक्षं प्रस्तुतयिष्यति।

एतदतिरिक्तं वरिष्ठविधायकः अजयः चन्द्राकरः राज्ये वर्धमानस्य प्लास्टिक-उपयोगस्य निरोधार्थम् अशासकीयसंकल्पं प्रस्तुतयिष्यति। तथा विधायकः सुशान्तः शुक्लः छत्तीसगढे समर्पितक्रीडाविश्वविद्यालयस्य स्थापनायाः मागं कृत्वा अशासकीयसंकल्पं सदसि स्थापयिष्यति।

Hindusthan Samachar / Dheeraj Maithani