Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्रिणा विष्णुदेव सायेन प्रधानमंत्री मोदी एवं केंद्रीय मंत्रिमंडलस्य प्रकटितः आभारः
रायपुरम् 16 जुलाईमासः (हि. स.)प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रीयमन्त्रिमण्डलेन सेमिकॉन २.० योजना, राष्ट्रीय यूरिया निवेशनीतिः २०२६, तथा चलदूरभाषनिर्माणप्रोत्साहनयोजना अनुमोदिता। अस्य निर्णयस्य अभिनन्दनं कुर्वन् छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसाय एतत् विकसितभारतनिर्माणस्य दिशि ऐतिहासिकं दूरदर्शि च निर्णयम् इति उक्तवान्। तेन उक्तं यत् एताभिः महत्त्वाकाङ्क्षिभिः योजनाभिः देशस्य औद्योगिकक्षमता, कृषिसुरक्षा, इलेक्ट्रॉनिक्सनिर्माणं च नूतनां गतिं प्राप्स्यन्ति, यस्य लाभः छत्तीसगढराज्येन सह समग्रदेशाय भविष्यति।
मुख्यमन्त्री साय गतायां रात्रौ स्वकीयसामाजिकमाध्यमे एक्स इत्यत्र लेखं प्रकाशितवान्। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतम् अद्य आत्मनिर्भरता, नवाचारः, अत्याधुनिकनिर्माणं च इत्येषां नूतनयुगस्य दिशि तीव्रगत्या अग्रे गच्छति। केन्द्रसर्वकारस्य एते त्रयः महत्त्वपूर्णनिर्णयाः देशस्य औद्योगिकक्षमतां कृषिसुरक्षां इलेक्ट्रॉनिक्सनिर्माणं च नूतनशिखरं प्रति नयिष्यन्ति। एतस्मै कृते सः प्रधानमन्त्री नरेन्द्रमोदिनं केन्द्रीयमन्त्रिमण्डलं च प्रति कृतज्ञताम् अभिव्यक्तवान्।
मुख्यमन्त्री अवदत् यत् एकलक्षसप्तविंशतिसहस्रपञ्चशतकोटिरूप्यकाणां सेमिकॉन २.० योजना देशे सेमीकण्डक्टर इलेक्ट्रॉनिक्सनिर्माणयोः विश्वस्तरीयपरिस्थितितन्त्रस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। अनेन भारतं वैश्विकपूर्तिशृङ्खलायां स्वस्य दृढभागीदारीं सुनिश्चितां करिष्यति। तेन उक्तं यत् छत्तीसगढम् अपि नूतनऔद्योगिकनीत्या, उत्कृष्टाधारसंरचनया, निवेशानुकूलवातावरणेन, कौशलविकासेन च उच्चप्रौद्योगिकीआधारितोद्योगानां कृते शीघ्रं विकसितं गन्तव्यस्थानं भवति। एतादृश्याः राष्ट्रीयपहलस्य प्रभावेण राज्ये अपि निवेशस्य रोजगारस्य च नूतनाः सम्भावनाः विकसिताः भविष्यन्ति।
मुख्यमन्त्री अवदत् यत् राष्ट्रीययूरियानिवेशनीतिः २०२६ अपि कृषिक्षेत्रस्य सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
मुख्यमन्त्री साय अवदत् यत् द्विषष्टिसहस्रपञ्चशतकोटिरूप्यकाणां चलदूरभाषनिर्माणप्रोत्साहनयोजना एम् पी एम् एस् भारतं वैश्विकइलेक्ट्रॉनिक्सनिर्माणनिर्यातयोः प्रमुखकेन्द्ररूपेण प्रतिष्ठापयितुं महत्त्वपूर्णा पहल अस्ति। अनेन भारतीयचिह्नानां अनुसन्धाने विकासे नवाचारे स्थानीयनिर्माणे च व्यापकः प्रोत्साहः भविष्यति। तेन उक्तं यत् छत्तीसगढे अपि औद्योगिकनिवेशः, इलेक्ट्रॉनिक्स, सूचना प्रौद्योगिकी, उद्भवमानप्रौद्योगिकीक्षेत्राणि च अनुकूलवातावरणेन विकसितानि क्रियमाणानि सन्ति, येन राज्यस्य युवभ्यः रोजगारस्य उद्यमितायाः च नूतनाः अवसराः सृज्यन्ते।
मुख्यमन्त्री विष्णुदेवसाय अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे स्वीकृताः एतादृशाः दूरदर्शिनः निर्णयाः विकसितभारतस्य सह विकसितछत्तीसगढस्य सङ्कल्पमपि नूतनां गतिं प्रदास्यन्ति। नवाचारः, निवेशः, प्रौद्योगिक्याः आत्मनिर्भरता, आधुनिकनिर्माणं, कृषिसशक्तीकरणं च आधारीकृतः अयं विकासप्रतिमानः आगामिषु वर्षेषु देशस्य प्रदेशस्य च अर्थव्यवस्थां नूतनशिखरं प्रति नेतुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
Hindusthan Samachar / Dheeraj Maithani