मुख्यमंत्री धामी वृद्ध जागेश्वरेऽकरोत् पूजा-अर्चनां, सुख-समृद्धि एवं जनकल्याणस्य कामनाम्
अल्माेड़ा, 16 जुलाईमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी अद्य अस्मिन् अवसरे देवाधिदेवं महादेवं प्रणम्य प्रदेशवासिनां सुखसमृद्ध्युत्तमस्वास्थ्यखुशहालयै प्रार्थनामकरोत्। तेन राज्यस्य निरन्तरप्रगतये जनकल्याणाय च आशीर्वादः प्रार्थितः। अस्मिन् अवसरे
Chief Minister Pushkar Singh Dhami offered prayers at Vriddh Jageshwar


अल्माेड़ा, 16 जुलाईमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी अद्य अस्मिन् अवसरे देवाधिदेवं महादेवं प्रणम्य प्रदेशवासिनां सुखसमृद्ध्युत्तमस्वास्थ्यखुशहालयै प्रार्थनामकरोत्। तेन राज्यस्य निरन्तरप्रगतये जनकल्याणाय च आशीर्वादः प्रार्थितः। अस्मिन् अवसरे मुख्यमन्त्री श्रीवृद्धजागेश्वरधाम्नि सार्धशतमानभारयुक्तां घण्टामपि समर्पितवान्। मन्दिरपरिसरे तेन कन्यापूजनं कृतं तथा कन्याभ्यः प्रसादवितरणमपि सम्पन्नम्।

मुख्यमन्त्री प्रदेशवासिभ्यः हरेलापर्वणः शुभकामनाः प्रदत्तवान्। स अवदत् यत् वृद्धजागेश्वरधाम देशस्य प्रमुखेषु प्राचीनेषु च शिवधामसु अन्यतमम् अस्ति, यत् स्वकीयया आध्यात्मिकसांस्कृतिकविरासतया समग्रे देशे विख्यातम् अस्ति। तेन उक्तं यत् राज्यसर्वकारः उत्तराखण्डस्य धार्मिकसांस्कृतिकधरोहराणां संरक्षणसंवर्धनयोः कृते निरन्तरं कार्यं करोति। सहैव तीर्थस्थलेषु श्रद्धालुभ्यः श्रेष्ठसुविधानां उपलब्धये धार्मिकपर्यटनस्य प्रोत्साहनाय च विविधाः विकासकार्यक्रमाः सञ्चाल्यन्ते।

पूजार्चनानन्तरं मुख्यमन्त्री मन्दिरपरिसरस्य भ्रमणं कृत्वा व्यवस्थाः अप्यवलोकितवान् तथा सम्बन्धिताधिकारिभ्यः श्रद्धालूनां सुविधा, सुरक्षा, मूलभूतव्यवस्थानां विषये संसूचनां प्राप्तवान्। तेन निर्देशाः प्रदत्ताः यत् वृद्धजागेश्वरमन्दिरमागच्छतां श्रद्धालूनां कृते काप्यसुविधा न भवेत् तथा सर्वाः आवश्यकव्यवस्थाः समयबद्धरूपेण सुव्यवस्थितरीत्या च सुनिश्चिताः क्रियेरन्।

अस्मिन् अवसरे जागेश्वरविधानसभाक्षेत्रस्य विधायकः मोहनसिंहमेहरा, दर्जाराज्यमन्त्री कुन्दनलटवाल, जिलापञ्चायतसदस्यः तथा भारतीयजनतापक्षस्य जिलाध्यक्षः महेशनयाल, जिलाधिकारी अंशुलसिंह, वरिष्ठपुलिसाधीक्षकः चन्द्रशेखर आर घोडके, अन्ये जनप्रतिनिधयः, प्रशासनिकाधिकारिणः, मन्दिरसमितेः पदाधिकारिणः तथा अन्ये उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani