Enter your Email Address to subscribe to our newsletters


-देशस्य प्रथमस्य हाइड्रोजन ट्रेनयानस्य
स्वागते गोहाना रेलवे जंक्शनमध्ये चलितं विशेषेण स्वच्छता-अभियानम्
सोनीपतम्, 16 जुलाईमासः (हि.स.)।देशस्य प्रथमस्य हाइड्रोजनचालितरेलयानस्य ऐतिहासिकसञ्चालनात् पूर्वं गुरुवासरे गोहानारेलसङ्गमस्थले “स्वच्छतया स्वागतम्” इत्यभियानस्य अन्तर्गतं विशेषस्वच्छताभियानम् आयोजितम्। पर्यटनमन्त्री डॉ. अरविन्दः शर्मा स्वपत्नी डॉ. रीता शर्मा तथा कार्यकर्तृभिः सह मार्जनीं गृहीत्वा अभियानस्य शुभारम्भम् अकरोत् तथा रेलपरिसरस्य स्वच्छीकरणार्थं श्रमदानम् अकरोत्।
मन्त्रिणा उक्तं यत् भारतीयसंस्कृतौ अतिथिसत्कारः सर्वोच्चा परम्परा वर्तते। वयं प्रतिदिनं स्वगृहस्य स्वच्छतां कुर्मः, किन्तु यदा कश्चन विशिष्टोऽतिथिरागन्तुं भवति, तदा विशेषोत्साहेन समर्पणभावेन च गृहं सज्जीक्रियते। सः अवदत् यत् जुलैमासस्य १७ दिनाङ्के यदा देशस्य प्रथमं हाइड्रोजनचालितं रेलयानं प्रथमवारं गोहानारेलस्थानकं प्राप्स्यति, तदा तत् केवलं रेलयानस्य आगमनं न भविष्यति, अपितु आधुनिकभारतस्य इतिहासे स्वर्णिमः क्षणो भविष्यति। एतदेव मनसि निधाय रेलस्थानके विशेषस्वच्छताभियानम् आयोजितम्।
डॉ. अरविन्दः शर्मा पुनरपि अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतं हरितऊर्जाक्षेत्रे आधुनिकप्रौद्योगिक्यां च निरन्तरं नवीनकीर्तिमानानि स्थापयति। देशस्य प्रथमस्य हाइड्रोजनचालितरेलयानस्य सञ्चालनम् अस्याः दूरदर्शिन्याः चिन्तनपद्धतेः फलम् अस्ति। अनेन परियोजनया गोहानानगरं वैश्विकीं ख्यातिं प्राप्स्यति तथा आधुनिकस्वच्छपरिवहनव्यवस्थायाः नूतना परिचायिका भविष्यति।
प्रधानमन्त्री नरेन्द्रमोदी जुलैमासस्य १७ दिनाङ्के जीन्दनगरात् देशस्य प्रथमस्य पर्यावरणानुकूलस्य हाइड्रोजनचालितरेलयानस्य शुभारम्भं करिष्यति। अस्मिन् ऐतिहासिकावसरे जीन्दनगरे विशालायाः पर्यावरणानुकूलायाः राल्याः आयोजनमपि भविष्यति, यस्मिन् बहुसंख्यकाः जनाः सहभागित्वं करिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani