मंड्यां हवन यज्ञेन पूर्णाहुत्या च समाचरितो धर्मसंघ भूतनाथ मंदिरस्य स्थापना दिवसः
मंडी, 16 जुलाईमासः (हि.स.)। ऐतिहासिकायाः मण्डीरियासत इत्यस्य नूतनराजधानीस्थापनं अद्यतः प्रायः पञ्चशतवर्षपूर्वं १५२७ तमे ईसवीयवर्षे अभवत्। तदैव मण्ड्याः अधिष्ठातुः बाबाभूतनाथस्य मन्दिरस्य स्थापनापि तत्कालीनराज्ञा अजबरसेनेन कृता। गुरुवासरे धर्मसङ्घ
धर्म संघ भूतनाथ मंदिर के स्थापना दिवस पर।


धर्म संघ भूतनाथ मंदिर का स्थापना दिवस


मंडी, 16 जुलाईमासः (हि.स.)।

ऐतिहासिकायाः मण्डीरियासत इत्यस्य नूतनराजधानीस्थापनं अद्यतः प्रायः पञ्चशतवर्षपूर्वं १५२७ तमे ईसवीयवर्षे अभवत्। तदैव मण्ड्याः अधिष्ठातुः बाबाभूतनाथस्य मन्दिरस्य स्थापनापि तत्कालीनराज्ञा अजबरसेनेन कृता। गुरुवासरे धर्मसङ्घेन भूतनाथमन्दिरस्य स्थापनादिवसः श्रद्धया उत्साहेन च महता वैभवेन आचरितः। अस्मिन्नवसरे विश्वशान्तेः जनकल्याणस्य च कामनया सुन्दरकाण्डपाठः हवनयज्ञः पूर्णाहुतिश्च आयोजिता। बहुसंख्यकाः श्रद्धालवः कार्यक्रमे सहभागित्वा धर्मलाभम् अर्जितवन्तः।

अस्मिन्नवसरे उपायुक्तः मण्डी अपूर्वदेवगनः नगरनिगममण्ड्याः महापौरा सुमनठाकुर च विशेषरूपेण उपस्थितौ आस्ताम्। उभौ अतिथी धर्मसङ्घस्य पक्षतः शालया स्मृतिचिह्नेन च सम्मानितौ। ततः ताभ्यां हवनयज्ञे आहुती समर्प्य विश्वकल्याणस्य शान्तेः प्रदेशस्य सुखसमृद्धेश्च कामना कृता। अस्मिन्नवसरे उपायुक्तः अपूर्वदेवगनः धर्मसङ्घाय स्थापनादिवसस्य शुभकामनाः प्रदाय अवदत् यत् एतादृशाः धार्मिकाः सामाजिकाश्च आयोजनाः समाजे सकारात्मकऊर्जायाः परस्परभ्रातृत्वस्य भारतीयसंस्कृतेः संरक्षणस्य च सन्देशं प्रयच्छन्ति। तेन धर्मसङ्घेन क्रियमाणानां धार्मिकसामाजिककार्याणां प्रशंसा कृता।

महापौरा सुमनठाकुर अपि स्थापनादिवसस्य शुभकामनाः प्रदाय अवदत् यत् धर्मसङ्घः बहुवर्षेभ्यः धार्मिकपरम्पराणां संरक्षणे समाजस्य संयोजने च प्रशंसनीयं कार्यं करोति। तया भविष्ये अपि एवं जनकल्याणपरकाणि धार्मिककार्यक्रमाणि च प्रवर्धयितुं शुभकामनाः प्रदत्ताः। धर्मसङ्घस्य अध्यक्षः भीमचन्दसरोच अवदत् यत् स्थापनादिवसः प्रतिवर्षं महोत्साहेन आचर्यते। धर्मसङ्घः समये समये सुन्दरकाण्डपाठस्य धार्मिकानुष्ठानानां भजनकीर्तनस्य सेवाकार्यस्य सामाजिककार्यक्रमाणां च आयोजनं करोति स्म, भविष्ये अपि एषः क्रमः निरन्तरं प्रवर्तिष्यते।

तेन उक्तं यत् धर्मसङ्घस्य उद्देश्यं धार्मिकश्रद्धायाः दृढीकरणेन सह समाजे सेवा संस्कार सद्भावभावनायाः च संवर्धनम् अस्ति। कार्यक्रमस्य अन्ते श्रद्धालुभ्यः प्रसादस्य वितरणं कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani