Enter your Email Address to subscribe to our newsletters

नैनीतालम्, १६ जुलाईमासः (हि.स.)। कुमाऊँ-विश्वविद्यालयस्य पूर्व-कुलपतिः प्रो. नागेश्वर-रावः राष्ट्रीय-मूल्याङ्कन-प्रत्यायन-परिषद:, बङ्गलूरु-स्थितायाः कार्यकारिणी-समितेः अध्यक्षः नियुक्तः। अस्य महत्त्वपूर्ण-नियुक्तेः अवसरे कुमाऊँ-विश्वविद्यालय-शिक्षक-सङ्घेन हर्षेण स्वीकृतः, तेन च तस्मै हार्दिक-शुभकामनाः प्रदत्ताः।
उल्लेखनीयम् अस्ति यत् प्रो. नागेश्वर-रावः कुमाऊँ-विश्वविद्यालयस्य कुलपतित्वेन सह इन्दिरा-गान्धी-राष्ट्रीय-मुक्त-विश्व-विद्यालयस्य, नवदेहली, उत्तराखण्ड-मुक्त-विश्वविद्यालयस्य कुलपतिः, केन्द्रीय-हिन्दी-निदेशालयस्य तथा भारतीय-उन्नत-अध्ययन-संस्थानस्य निदेशकः अपि आसीत्। उत्तरप्रदेश-राजर्षि-टण्डन-मुक्त-विश्वविद्यालयेऽपि तेन महत्त्वपूर्णानि प्रशासनिक-दायित्वानि निर्वुढानि। उच्च-शिक्षायाः गुणवत्ता-मूल्याङ्कनस्य च क्षेत्रे तस्य दीर्घानुभवं दृष्ट्वा तस्मै नाक-कार्यकारिणी-समितेः अध्यक्ष-पदस्य दायित्वं समर्पितम्।
कुमाऊँ-विश्वविद्यालय-शिक्षक-सङ्घस्य अध्यक्षः प्रो. ललित-तिवारी अवदत् यत् प्रो. नागेश्वर-रावस्य एषा नियुक्तिः उच्च-शिक्षा-जगतः गौरवस्य विषयः अस्ति। कूटा-सङ्घस्य पक्षतः प्रो. नीलू, डॉ. दीपक-कुमारः, डॉ. युगल-जोशी, डॉ. सन्तोष-कुमारः, डॉ. कुबेर-गिनती, डॉ. शिवाङ्गी, डॉ. अनिल-बिष्टः, डॉ. दीपिका-गोस्वामी, डॉ. अशोक-कुमारः, एलुमनी-सेल-अध्यक्षः डॉ. बी.एस. कालाकोटी, डॉ. ज्योति-काण्डपाल, डॉ. रितेश-साहः, डॉ. मीना-पाण्डे, डॉ. निशा, डॉ. भुवन-आर्यः, डॉ. नन्दन-मेहरा, हरीश-राणा इत्यादयः अन्ये च शिक्षकाः अपि प्रो. नागेश्वर-रावं अभिनन्द्य तस्य सफल-कार्यकालाय शुभकामनाः प्रदत्तवन्तः।
Hindusthan Samachar / Divya Ranjan