Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे हरियाणाराज्यस्य जीन्दरेलस्थानकात् जीन्द–सोनीपतयोः मध्ये सञ्चरन्तीं देशस्य प्रथमां हाइड्रोजन-रेलयानसेवाम् हरित-ध्वजं प्रदर्श्य प्रस्थानं कारयिष्यति। प्रायः द्विसहस्रषट्शतयात्रिणां वहनक्षमता-युक्तमिदं रेलयानं हाइड्रोजनस्य साहाय्येन स्वयमेव विद्युत्शक्तिम् उत्पाद्य सञ्चरिष्यति। अस्मिन् सञ्चालनकाले न धूमः, न कार्बन-उत्सर्जनं भविष्यति; केवलं जलवाष्पः तथा ऊष्मा एव निष्पतिष्यतः।
रेलमन्त्रालयेन गुरुवासरे उक्तं यत् देशस्य विस्तीर्णपट्टिकायुक्तस्य रेलजालस्य नवत्यधिकनवनवतिशतांशः विद्युत्-करणेन सम्पन्नः अस्ति। अधुना भारतीयरेलविभागः स्वच्छऊर्जायाः दिशि अपरं महत्त्वपूर्णं पदं निधत्ते। एतद् रेलयानम् उपरितनविद्युत्ताररेखायाः आश्रयं विना स्वस्य अन्तरे विद्यमानयोः हाइड्रोजनस्य वायौ स्थितायाश्च प्राणवायोः साहाय्येन विद्युत्शक्तिं निर्माति। अस्मिन् दशयानकोष्ठकानि सन्ति— द्वे शक्तियान-कोष्ठके अष्टौ यात्रियान-कोष्ठकानि च। प्रत्येकस्मिन् शक्तियान-कोष्ठके ईन्धन-कोषः, विद्युत्सञ्चयकोषः, हाइड्रोजन-नलिकाः च संस्थापिताः सन्ति। अस्य अभिकल्पितगतिः प्रतिहोरा ११० किलोमीटरपरिमिता अस्ति, किन्तु जीन्द–सोनीपत-रेलमार्गे प्रतिहोरा ७५ किलोमीटरवेगेन सञ्चरिष्यति।
रेलमन्त्रालयस्य अनुसारं विश्वस्य बहुषु देशेषु हाइड्रोजन-रेलयानानि सञ्चरन्ति, किन्तु तानि सामान्यतया द्वि-चतु:यानकोष्ठकयुक्तानि भवन्ति। भारतस्य एतत् दशयानकोष्ठकयुक्तं रेलयानं वहनक्षमतायाः दृष्ट्या विश्वस्य बृहत्तमेषु हाइड्रोजन-यात्रिरेलयानेषु गण्यते। अस्मिन् हाइड्रोजन-इत्यस्य उपयोगः सर्वथा सुरक्षितः भवेत् इति हेतोः बहुस्तरीया सुरक्षाव्यवस्था कृता अस्ति। हाइड्रोजन-प्रस्रवणम्, अग्निः, धूमः, अत्यधिकोष्णता च शीघ्रमेव ज्ञातुं विशेषसंवेदकाः संस्थापिताः सन्ति। यदि काचिद् विकृतिः जायते तर्हि हाइड्रोजनस्य आपूर्तिः स्वयमेव निरुध्यते। रेलयाने जीन्दस्थिते हाइड्रोजन-उत्पादनकेन्द्रे च आधुनिकाग्निसुरक्षाव्यवस्था अपि स्थापिता अस्ति।
अस्य रेलयानस्य कृते हरियाणाराज्यस्य जीन्दनगरे देशस्य बृहत्तमा रेलवे-हाइड्रोजन-रीफ्यूलिङ्ग-सुविधा निर्मिता अस्ति। अत्र जलात् हाइड्रोजनवायुः उत्पाद्यते, सुरक्षितरीत्या सञ्चीयते, ततः रेलयाने पूर्यते च। एषा सुविधा पेट्रोलियम-विस्फोटक-सुरक्षासङ्गठनस्य अनुमतिं प्राप्तवती। रेलमन्त्रालयेन उक्तं यत् रेलयानस्य सेवायां प्रवर्तनात् पूर्वं अस्य विद्युत्तन्त्रस्य, अवरोधकयन्त्रस्य, सञ्चार-व्यवस्थायाः, गतिसम्बद्धानां च बहूनां तकनीकीपरीक्षणानां सफल-समापनम् अभवत्। अपरञ्च जर्मनीदेशस्य स्वतन्त्र-संस्थया टीयूवी सूड् इत्यनया अपि अस्य सुरक्षापरीक्षणं सम्पन्नम्।
भारतीयरेलविभागस्य नेतृत्वे विकसितायामस्यां परियोजनायाम् अनुसन्धान-अभिकल्प-मानक-सङ्गठनम्, इण्टिग्रल-कोच-फैक्टरी तथा मेडहा सर्वो ड्राइव्स इत्येतेषां महत्त्वपूर्णं योगदानम् अस्ति। रेलमन्त्रालयस्य कथनानुसारम् अस्याः परियोजनायाः अनुभवान् आधृत्य भविष्ये कालका–शिमला-रेलमार्गे अपि हाइड्रोजन-रेलयानस्य सञ्चालनस्य योजना वर्तते। एषा परियोजना राष्ट्रीय-हरित-हाइड्रोजन-अभियानस्य तथा पर्यावरणानुकूल-रेलपरिवहनस्य प्रोत्साहनदिशि महत्त्वपूर्णं पदम् इति मन्यते।
Hindusthan Samachar / Divya Ranjan