Enter your Email Address to subscribe to our newsletters

वाशिङ्गटननगरम्, १६ जुलाईमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड-ट्रम्पः बुधवासरे अवदत् यत् ईरानदेशेन एका अमेरिकीय-नागरिकता विमोचिता। सा २०२४ तमस्य वर्षस्य दिसम्बरमासात् आरभ्य ईरानदेशे मिथ्याप्रकारेण निरुद्धा आसीत्। ट्रम्पः तस्याः परिचयं न प्रकाशितवान्, न च तस्याः विमोचनस्य परिस्थितिविषये किमपि विस्तृतसूचनां दत्तवान्। सः अस्मै सद्भावपूर्णाय कर्मणे ईरानदेशस्य आभारम् अपि प्रकटितवान्।
राष्ट्रपतिः डोनाल्ड-ट्रम्पः एतां शुभवार्तां स्वस्य ट्रुथ् सोशल-माध्यमे प्रकाशितवान्। सः अलिखत्— “ईरानदेशेन एका अमेरिकीय-नागरिका स्वदेशात् निर्गन्तुम् अनुमतिः प्रदत्ता। सा ‘स्लीपी जो बाइडेन’ इत्यस्य कार्यकाले २०२४ तमस्य वर्षस्य दिसम्बरमासे मिथ्याप्रकारेण निरुद्धा आसीत्। सा अधुना सुरक्षितरूपेण ईराणदेशात् बहिर्गता अस्ति तथा च कुशला वर्तते। संयुक्तराज्यम् ईरानदेशस्य अस्य सद्भावपूर्णस्य पादक्षेपस्य प्रशंसां करोति।”
सीएनएन-संस्थायाः प्रतिवेदनानुसारं राष्ट्रपतेः ट्रुथ सोशल-प्रकाशनानन्तरं मुक्तायाः महिलायाः परिचयविषये श्वेतभवनात् तथा राष्ट्रपतेः बन्धक-प्रकरणेषु विशेषदूतस्य कार्यालयात् सम्पर्कः कृतः। अनन्तरं तस्याः अधिवक्त्रा मुक्तायाः महिलायाः परिचयः डीना करारी इति प्रकाशितः।
अन्ताराष्ट्रिय-मानवाधिकार-अधिवक्ता जेरेड् गेन्सरः एक्स-माध्यमे अलिखत्— “मम मुवक्किला अमेरिकीय-नागरिका डीना करारी अधुना मुक्ता इति निवेदयितुं महत् हर्षम् अनुभवानि। सा २०२४ तमस्य वर्षस्य दिसम्बरमासात् आरभ्य मिथ्याभियोगानां कारणेन ईरानदेशे निरुद्धा आसीत्।” सः राष्ट्रपतिं ट्रम्पम् धन्यवादं ज्ञापितवान् तथा च उक्तवान् यत् तस्य वार्ता अधुना सुरक्षितास्ति एवं संयुक्तराज्यम् प्रति प्रत्यागच्छति।
अमेरिकी-अधिकारी एकः अवदत् यत् गतमासपर्यन्तं अमेरिकासर्वकारः ईरान-देशे निरुद्धानां न्यूनातिन्यूनं षण्णाम् अमेरिकीय-नागरिकाणां स्थितेः पर्यवेक्षणं कुर्वन् आसीत्। तेषु द्वौ मिथ्याप्रकारेण निरुद्धौ इति आधिकारिकरूपेण चिह्नितौ स्तः।
Hindusthan Samachar / Divya Ranjan