Enter your Email Address to subscribe to our newsletters

पश्चिमी सिंहभूमः, 16 जुलाईमासः (हि.स.)।नानकशाही-पञ्चाङ्गानुसारं गुरुवासरात् श्रावणमासस्य शुभारम्भे चाईबासास्थिते गुरुद्वारे नानकदरबारे विशेषगुरुमतसमागमस्य आयोजनम् अभवत्। अस्मिन्नवसरे बहुसंख्यकाः श्रद्धालवः गुरुगृहे मस्तकं नत्वा आशीर्वादं प्राप्तवन्तः तथा गुरुबाणीकीर्तनस्य अमृतरसस्य आस्वादनम् अकुर्वन्।
कार्यक्रमस्य प्रारम्भः गुरुद्वारस्य ग्रन्थी हरभजनसिंहेन द्वादशमासपाठेन कृतः। तदनन्तरं तेन वाद्यसहितं गुरुबाणीकीर्तनं प्रस्तुत्य श्रद्धालवः आध्यात्मिकभावेन संयोजिताः। कीर्तनकाले सम्पूर्णः गुरुद्वारपरिसरः भक्तिमयवातावरणेन गुञ्जितः, सङ्गतिश्च गुरुवाण्यां पूर्णतया निमग्ना अभवत्।
अस्मिन्नवसरे ग्रन्थी हरभजनसिंहः श्रावणमाससम्बद्धाः गुरुबाणीपङ्क्तीः सङ्गतायै श्रावयित्वा तासाम् आध्यात्मिकमहत्त्वं विस्तरेण व्याख्यातवान्। सः अवदत् यत् मनुष्येण सर्वदा परमेश्वरस्य नामस्मरणं कर्तव्यम् तथा सत्यस्य, सेवायाः, मानवकल्याणस्य च मार्गम् अनुसृत्य स्वजीवनं सार्थकं विधातव्यम्। तेन सङ्गतं प्रति गुरुसाहिबस्य शिक्षाः दैनन्दिनजीवने आचरितुं प्रेरणा अपि प्रदत्ता।
धार्मिकदीवानस्य समापनकाले सर्वेषां श्रद्धालूनां सुखसमृद्ध्यै, उत्तमस्वास्थ्याय, विश्वकल्याणाय च अरदासः कृतः। ततः परं सङ्गतायाः मध्ये प्रसादः वितरितः, अल्पाहारस्य व्यवस्थापि कृता।
श्रावणमासस्य प्रथमदिने आयोजिते अस्मिन् विशेषधार्मिककार्यक्रमे श्रद्धालवः पूर्णोत्साहेन श्रद्धया च सहभागित्वम् अकुर्वन्।
---------------
Hindusthan Samachar / Dheeraj Maithani