Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १६ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अद्य गुरुवासरे नवदेहल्यां द्विदिवसीये ‘फेथ कॉन्क्लेव २०२६’ कार्यक्रमे सहभागी भविष्यति। फेडरेशन ऑफ एसोसिएशन्स इन इण्डियन टूरिज्म एण्ड हॉस्पिटैलिटी इत्यनेन आयोजितस्य अस्य कार्यक्रमस्य मुख्यविषयः “अतुल्य-भारतम् : अमूल्यम् अर्थशास्त्रम्” इति अस्ति।
जनसम्पर्क-अधिकारी अनुराग-उइके इत्यनेन प्रदत्तसूचनानुसारम् एषः कॉन्क्लेव १६–१७ जुलाईमासयोः २०२६ तमे वर्षे देशस्य नीतिनिर्मातॄन् उद्योगजगतः वरिष्ठ-नेतॄन् च एकस्मिन् समानमञ्चे समागमयिष्यति।
सः अवदत् यत् अस्य कॉन्क्लेवस्य मुख्योद्देश्यं पर्यटनस्य माध्यमेन आर्थिक-विकासं, रोजगार-सृजनं तथा प्रादेशिक-विकासं त्वरितं कर्तुम् अस्ति। कार्यक्रमस्य अवसरे देशे यात्रा-पर्यटनयोः अवसरान् वर्धयितुं “टूरिज्म ग्रोथ चार्टर” इत्यस्य अन्तर्गतं समयबद्ध-कार्ययोजनायाः प्रस्तावः प्रस्तुतः भविष्यति। अस्मिन् चार्टर-मध्ये पर्यटनस्य आधारभूत-संरचनारूपेण मान्यता, अभियान-रीत्या पञ्चाशत् पर्यटन-स्थलानां विकासः तथा वैश्विकस्तरे ब्राण्ड् इण्डिया इत्यस्य प्रचारः इत्यादयः महत्त्वपूर्णाः विषयाः समाविष्टाः सन्ति।
एतदतिरिक्तं सरलीकृत-पारपत्र-व्यवस्था, पर्यटनस्य आधारभूत-संरचनायां निवेशः तथा सिङ्गल-विण्डो-क्लियरन्स्-व्यवस्थया निजी-क्षेत्रस्य सहभागितायाः वर्धनम् इत्यादिषु विषयेष्वपि विस्तरेण चर्चा भविष्यति। पर्यटन-आतिथ्य-क्षेत्रस्य अस्य प्रमुख-सङ्घस्य फेथ इत्यस्य मञ्चे मुख्यमन्त्रिणः डॉ. मोहन-यादवस्य उपस्थितिः मध्यप्रदेशे पर्यटन-निवेशस्य विकासस्य च नूतनाः सम्भावनाः प्रकाशयिष्यति।
Hindusthan Samachar / Divya Ranjan