Enter your Email Address to subscribe to our newsletters

-उपागमस्य तकनीकी समस्यानामवसरे भविष्यति त्वरितं निराकरणम्
भोपालम्, 16 जुलाईमासः (हि.स.)।
मध्यप्रदेशे शासकीयवित्तीयसंव्यवहाराणां अधिकसुगमतया पारदर्शितया त्रुटिरहिततया च सञ्चालनस्य उद्देशेन वित्तविभागस्य एकीकृतवित्तीयप्रबन्धनसूचनाप्रणाली आईएफएमआईएस इति तन्त्रांशेन सम्बद्धानां तकनीकीसमस्यानां शीघ्रनिराकरणार्थम् अद्य गुरुवासरात् द्विदिवसीयविशेषः आईएफएमआईएस केयर कैम्प इति शिविरः आयोज्यते।
वरिष्ठकोषालयाधिकारी नितीन वाघमोडे अवदत् यत् अस्य अभियानस्य मुख्योद्देशः वित्तीयसंव्यवहारेषु आहरणसंवितरणाधिकारिणां समुपस्थितानां तकनीकीजटिलतानां बाधानां च स्थले एव त्वरितनिराकरणम् अस्ति। वल्लभभवनकोषालयसम्बद्धानां सर्वेषाम् आहरणसंवितरणाधिकारिणां सुविधार्थम् एषः द्विदिवसीयः शिविरः सरदारवल्लभभाई पॉलिटेक्निक महाविद्यालये श्यामलाहिल्स भोपाले आयोज्यते। शिविरस्य समयः प्रातः ११ वादनतः मध्याह्न १ वादनपर्यन्तं निर्धारितः अस्ति।
विशेषज्ञैः स्थले एव भविष्यति समाधानम्
द्विदिवसीयशिविरे तकनीकीविशेषज्ञानां विशेषदलम् उपस्थितं भविष्यति। तत् दलं विविधशासकीयकार्यालयेभ्यः आगच्छताम् अधिकारिणां कर्मचारिणां च तकनीकीसमस्यानां त्वरितं समाधानं करिष्यति। वरिष्ठकोषालयाधिकारी सम्बद्धान् सर्वान् आहरणसंवितरणाधिकारिणः पत्रं प्रेष्य अस्मिन् शिविरे अनिवार्यरूपेण सहभागितां कर्तुं प्रार्थितवान्, येन लम्बितानां तकनीकीप्रकरणानां समयसीमायाः अन्तर्गतं निराकरणं सुनिश्चितं भवेत्।
---------------
Hindusthan Samachar / Dheeraj Maithani