केन्द्रीय मंत्री सिंधिया अद्य मध्यप्रदेशस्य अशोकनगरजनपदे विभिन्न कार्यक्रमेषु सम्मेलिष्यते
अशेाक नगरम्, 16 जुलाईमासः (हि.स.)।केन्द्रीयसञ्चारपूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्यसिन्धिया अद्य गुरुवासरे मध्यप्रदेशस्य अशोकनगरजनपदस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः अत्र विविधेषु कार्यक्रमेषु सहभागिता करिष्यति तथा विकासकार्याणां सौ
केन्द्रीय मंत्री सिंधिया (फाइल)


अशेाक नगरम्, 16 जुलाईमासः (हि.स.)।केन्द्रीयसञ्चारपूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्यसिन्धिया अद्य गुरुवासरे मध्यप्रदेशस्य अशोकनगरजनपदस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः अत्र विविधेषु कार्यक्रमेषु सहभागिता करिष्यति तथा विकासकार्याणां सौगातं प्रदास्यति।

जिलाप्रशासनेन प्रकाशितकार्यक्रमानुसारं केन्द्रीयमन्त्री सिन्धिया अद्य प्रातः १० वादने अशोकनगरस्थितं तारवाले बालाजीमन्दिरं गत्वा दर्शनं करिष्यति। ततः परं जनसम्पर्ककार्यालये जनसुनवायीं करिष्यति। अनन्तरं सः आजीविकामिशनस्य स्वसहायतासमूहस्य भगिनीभिः सह संवादं करिष्यति, अन्येषु स्थानीयकार्यक्रमेषु च सहभागिता करिष्यति। सायं ५.१५ वादने सेमरखेडी ग्रामं प्राप्य विद्युत् उपकेन्द्रस्य लोकार्पणं करिष्यति। ततः रात्रौ ८.५५ वादनपर्यन्तं स्थानीयकार्यक्रमेषु सहभागितां कृत्वा अशोकनगरस्थिते सर्किटहाउसे रात्रिविश्रामं करिष्यति।

केन्द्रीयमन्त्री सिन्धिया परदिने जुलाईमासस्य १७ दिनाङ्के अशोकनगरस्थिते कलक्टरेटे प्रातः १० वादनतः प्रातः ११.३० वादनपर्यन्तं डीवीएमसी इति समितेः बैठकम् आयोजयिष्यति। प्रातः ११.३० वादनतः मध्याह्ने १२ वादनपर्यन्तं कलक्टरेटे पत्रकारसम्मेलनं करिष्यति। ततः परं १२.३० वादने सेमरी शाहबादं प्राप्य ग्रामचौपालकार्यक्रमे सहभागिता करिष्यति तथा शासकीयविद्यालयभवनस्य लोकार्पणं करिष्यति।

तदनन्तरं सः अपराह्णे २.४० वादने अशोकनगररेलस्थानकस्य जीर्णोद्धारोद्घाटनकार्यक्रमे सहभागिता करिष्यति। ततः परं अशोकनगरस्थितं तुलसीसरोवरं गत्वा पीएम स्वनिधियोजनायाः लाभार्थिनां अभिनन्दनसंवादकार्यक्रमे सहभागिता करिष्यति। सहैव पारकना सेहराई इति स्थाने आयोजिते कार्यक्रमे विकासकार्याणां लोकार्पणं शिलान्यासं च करिष्यति। ततः परं किलाकोठीं गत्वा रात्रिविश्रामं करिष्यति।

केन्द्रीयमन्त्री सिन्धिया जुलाईमासस्य १८ दिनाङ्के प्रातः ९.३० वादने जागेश्वरीमातामन्दिरं गत्वा दर्शनं करिष्यति। ततः परं पाठखेडा ग्रामे विद्युत् उपकेन्द्रस्य लोकार्पणं करिष्यति। मध्याह्ने १२.४५ वादने मढ़ी महिदपुरग्रामे विद्युत् उपकेन्द्रस्य लोकार्पणं कृत्वा अन्येषु स्थानीयकार्यक्रमेषु सहभागिता करिष्यति। ततः परं ग्वालियरनगराय प्रस्थानं करिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani