मध्यप्रदेशस्य बाला - भारतीय महिला क्रिकेटर क्रांतेः गौडयुवाक्रीड़िभ्यः प्रेरणास्रोतः : विश्वास कैलाश सारंगः
- लॉर्ड्स इत्येषु ऐतिहासिके प्रदर्शनेऽददात् शुभकामनाः भोपालम्, 16 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य क्रीडायुवकल्याणमन्त्री विश्वासकैलाशसारङ्गः अवदत् यत् प्रदेशस्य दुहिता भारतीयमहिलाक्रिकेटक्रीडिका क्रान्तिगौडा युवक्रीडकानां कृते प्रेरणास्रोतम् अ
भारतीय महिला क्रिकेटर क्रांति गौड़ को पुष्पगुच्छ देते हुए मंत्री विश्वास कैलाश सारंग


मंत्री विश्वास कैलाश सारंग ने भारतीय महिला क्रिकेटर क्रांति गौड़ का किया सम्मान


- लॉर्ड्स इत्येषु ऐतिहासिके प्रदर्शनेऽददात् शुभकामनाः

भोपालम्, 16 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य क्रीडायुवकल्याणमन्त्री विश्वासकैलाशसारङ्गः अवदत् यत् प्रदेशस्य दुहिता भारतीयमहिलाक्रिकेटक्रीडिका क्रान्तिगौडा युवक्रीडकानां कृते प्रेरणास्रोतम् अस्ति। राजधानीभोपालस्थिते टीटीनगरक्रीडाङ्गणे प्रदेशस्य देशस्य च गौरववर्धिनीं भारतीयमहिलाक्रिकेटदलस्य द्रुतगेन्दप्रक्षेपिकां क्रान्तिगौडां सः समभेटत् तथा इङ्ग्लैण्डदेशस्य ऐतिहासिकलार्ड्सक्रिकेटक्रीडाङ्गणे तस्याः उत्कृष्टप्रदर्शनाय अभिनन्दनं शुभकामनाश्च प्रदत्तवान्।

मन्त्री सारङ्गः अवदत् यत् क्रान्तिगौडा स्वस्य उत्कृष्टप्रदर्शनेन केवलं मध्यप्रदेशस्य न, अपितु समग्रस्य भारतदेशस्य नाम अपि विश्वपटल उपरि प्रकाशयति। तेन उक्तं यत् मुख्यमन्त्री डा. मोहनयादवस्य नेतृत्वे राज्यसर्वकारः क्रीडाप्रतिभाः निरन्तरं प्रोत्साहयति। आधुनिकक्रीडाधारसंरचनायाः, उत्कृष्टप्रशिक्षणसुविधानां, ग्रामीणप्रदेशेषु क्रीडावसरविस्तारस्य च परिणामस्वरूपम् अद्य प्रदेशस्य ग्रामीणाञ्चलानां बालकाः राष्ट्रीयान्तरराष्ट्रीयस्तरेषु स्वप्रतिभां प्रमाणयन्ति। क्रान्तिगौडा मध्यप्रदेशस्य छतरपुरजिलस्य घुवाराग्रामनिवासिनी अस्ति।

क्रिकेटक्रीडिका क्रान्तिगौडा अवदत्, लार्ड्सक्रीडाङ्गणे भारतस्य विजयस्य अंशः भवितुं मम मम परिवारस्य च कृते जीवनस्य महान्तमः क्षणः आसीत्। तया उक्तं यत् लार्ड्सस्य प्रतिष्ठितसम्मानपट्टिकायां स्वनामाङ्कनं दृष्ट्वा तदैव सा परिवारजनान् दूरदृश्यसम्भाषणेन सम्पर्क्य तं ऐतिहासिकक्षणं तैः सह समविभजत्। सा अवदत्, सम्मानपट्टिकायां नामाङ्कनं प्रत्येकस्य क्रिकेटक्रीडकस्य स्वप्नम् अस्ति। प्रथमभारतीयमहिलाक्रिकेटक्रीडिकारूपेण तत्र स्वनामाङ्कनं मम कृते महान् गौरवविषयः अस्ति। एषा उपलब्धिः केवलं मम न, अपितु मम परिवारस्य, मम प्रशिक्षकानाम्, मध्यप्रदेशस्य, समग्रभारतस्य च अस्ति।

मन्त्री सारङ्गः विश्वासं व्यक्तवान् यत् क्रान्तिगौडायाः एषा ऐतिहासिकोपलब्धिः प्रदेशस्य सहस्रशः कन्यानां क्रीडाक्षेत्रे अग्रे गन्तुं प्रेरणां दास्यति तथा आगामिषु कालेषु मध्यप्रदेशस्य क्रीडकाः अन्तरराष्ट्रीयमञ्चेषु भारतस्य गौरवं एवंविधमेव वर्धयिष्यन्ति।

उल्लेखनीयम् अस्ति यत् मध्यप्रदेशस्य द्रुतगेन्दप्रक्षेपिका क्रान्तिगौडा इङ्ग्लैण्डदेशस्य विरुद्धं सम्पन्ने ऐतिहासिकलार्ड्सपरीक्षाक्रिकेटस्पर्धायां उभयपार्ययोः समष्टिरूपेण सप्तविकेटानि प्राप्तवती। स्पर्धायाः प्रथमपार्याम् उत्कृष्टगेन्दप्रक्षेपणं प्रदर्श्य सप्तत्रिंशद्रणान् दत्त्वा पञ्चविकेटानि प्राप्तवती। द्वितीयपार्याम् अपि द्वे विकेटे प्राप्तवती। एवं स्पर्धायां सप्तविकेटप्राप्तेः कारणात् सा स्पर्धायाः श्रेष्ठक्रीडिकारूपेण चयनिता। एतेन सह क्रान्तिगौडा प्रतिष्ठितलार्ड्ससम्मानपट्टिकायां स्वनामाङ्कनं कर्तुं समर्था जाता विश्वस्य प्रथमा महिलाक्रिकेटक्रीडिका अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani