Enter your Email Address to subscribe to our newsletters

हुगली, 16 जुलाईमासः (हि.स.)।
पश्चिमबङ्गराज्यस्य लोकस्वास्थ्याभियांत्रिकीविभागस्य (पीएचई) तथा श्रमविभागस्य राज्यमन्त्री भास्करः भट्टाचार्यः बुधवासरे रात्रौ स्वजन्मदिनसमारोहे रवीन्द्रसङ्गीतस्य सुगमसङ्गीतस्य च मधुरप्रस्तुतिं कृत्वा उपस्थितानाम् अतिथीनां हृदयानि जितवान्। तस्य भावपूर्णगायनेन सम्पूर्णः सभामण्डपः करतालध्वनिभिः प्रतिध्वनितः।
रिषडानगरस्य समीपे श्रीरामपुरस्थिते सागर-मैरिज-हॉल-नाम्नि सभाभवने आयोजिते अस्मिन् भव्यसमारोहे सामाजिकराजनीतिकादिविविधक्षेत्रेषु सम्बद्धाः प्रायः शतं विशिष्टातिथयः सहभागीभूताः। सम्पूर्णे कार्यक्रमे सौहार्दस्य, आत्मीयतायाः, उत्साहस्य च वातावरणम् आसीत्।
अस्मिन् समारोहे उत्तरपाडानिर्वाचनक्षेत्रस्य विधायकः दीपाञ्जनः चक्रवर्ती, प्रदेशभाजपाया सदस्यः कृष्णा भट्टाचार्यः, वरिष्ठभाजपानेता श्यामलः बोसः, पूर्वजिलाध्यक्षः मोहनः अदकः, भाजपानेता राकेशः चौधरी, रिषडानगरपालिकायाः एकादशवार्डस्य पार्षदा शशिः सिंहः, दशमवार्डस्य पार्षदः मनोजः सिंहः, भाजपानेतारौ राकेशः सिंहः, अमितः ब्रह्मा, तथा अन्येऽपि बहवः गणमान्यजनाः उपस्थिताः आसन्।
जन्मदिनावसरे केकच्छेदनस्य सह सांस्कृतिककार्यक्रमाणामपि आयोजनम् अभवत्। मन्त्री भास्करः भट्टाचार्यः सर्वेषाम् अतिथीनां प्रति कृतज्ञतां प्रकटयन् तेषां स्नेहाय, शुभकामनाभ्यः, सहयोगाय च धन्यवादम् अर्पितवान्।
समारोहस्य सर्वाधिकस्मरणीयः क्षणः तदा अभवत्, यदा मन्त्री स्वयम् एव मञ्चम् आरुह्य रवीन्द्रसङ्गीतस्य सुगमसङ्गीतस्य च प्रस्तुतीम् अकरोत्। तस्य सहजमधुरगायनेन उपस्थिताः जनाः मन्त्रमुग्धाः अभवन्। अतिथयः उत्थाय करतालध्वनिभिः तस्य अभिनन्दनम् अकुर्वन्।
मन्त्रिणः समर्थकैः प्रशंसकैश्च आयोजिते अस्मिन् समारोहे उपस्थितैः सर्वैः जनैः तस्य उत्तमस्वास्थ्याय, दीर्घायुषे, जनसेवाक्षेत्रे निरन्तरसफलतायै च शुभकामनाः प्रदत्ताः।
---------------
Hindusthan Samachar / Dheeraj Maithani