रथयात्रायाः अवसरे कामारपुकुरे शताब्दी-प्राचीना परम्परा पुनर्जीविता, सन्तैः प्रतीकात्मकरूपेण धान्य-रोपणं कृतम्
हुगलीनगरम्, १६ जुलाईमासः (हि.स.)। रथयात्रायाः पावनावसरे गुरुवासरे हुगली-जनपदस्य गोघाटस्थिते कामारपुकुरे श्रीरामकृष्ण-परमहंसस्य परिवारेण सम्बद्धा ऐतिहासिकी परम्परा पुनर्जीविता अभवत्। कामारपुकुर-रामकृष्ण-मठस्य समीपस्थिते ऐतिहासिके लक्ष्मीजला-क्षेत्रे
धान रोपण करते संत


हुगलीनगरम्, १६ जुलाईमासः (हि.स.)। रथयात्रायाः पावनावसरे गुरुवासरे हुगली-जनपदस्य गोघाटस्थिते कामारपुकुरे श्रीरामकृष्ण-परमहंसस्य परिवारेण सम्बद्धा ऐतिहासिकी परम्परा पुनर्जीविता अभवत्। कामारपुकुर-रामकृष्ण-मठस्य समीपस्थिते ऐतिहासिके लक्ष्मीजला-क्षेत्रे मठस्य महाराजैः साधु-सन्तैश्च परम्परानुसारं सामूहिकरूपेण धान्यस्य रोपणं कृत्वा एषा परम्परा निर्वुढा।

कामारपुकुर-रामकृष्ण-मठ-मिशन-इत्यशयोः अध्यक्षः स्वामी लोकोत्तरानन्दजी महाराजः अवदत् यत् श्रीरामकृष्ण-परमहंसस्य पिता खुदीराम-चट्टोपाध्यायः यदा स्वकीयात् पैतृक-ग्रामात् कामारपुकुरम् आगतः, तदा तस्य घनिष्ठ-मित्रेण सुखलाल-गोस्वामिना लक्ष्मीजला-क्षेत्रे प्रायः द्वि-बीघा-परिमिता भूमिः दानरूपेण प्रदत्ता। एतस्याः भूमेः एव परिवारस्य कृष्याधारित-जीवनोपायस्य प्रारम्भः अभवत्।

तेन उक्तं यत् परम्परानुसारं खुदीराम-चट्टोपाध्यायः प्रतिवर्षं रथयात्रायाः दिने स्वस्य आराध्यं भगवान्तं रघुवीरं स्मृत्वा स्वयं प्रथमं धान्यस्य पादपान् रोपयति स्म। तदनन्तरं ग्रामस्य कृषकाः सम्पूर्णे क्षेत्रे धान्यस्य रोपणं कुर्वन्ति स्म। अस्य एव क्षेत्रस्य धान्येन परिवारस्य वर्षपर्यन्तं भरण-पोषणं भवति स्म।

खुदीराम-चट्टोपाध्यायस्य निधनानन्तरं एषा परम्परा कामारपुकुर-रामकृष्ण-मठेन अग्रे प्रवर्तिता। तदनन्तरं प्रतिवर्षं रथयात्रायाः दिने मठस्य महाराजाः साधु-सन्ताश्च प्रतीकात्मकरूपेण धानस्य रोपणं कृत्वा तस्मै श्रद्धाञ्जलिं समर्पयन्ति।

अस्मिन्नपि वर्षे श्रद्धालूनां स्थानीय-जनानां च उपस्थितौ धार्मिक-गौरव-श्रद्धापूर्ण-वातावरणे एषा ऐतिहासिकी परम्परा पालिता। अयं कार्यक्रमः केवलं कृषिकर्मणः शुभारम्भः नास्ति, अपितु श्रीरामकृष्ण-परमहंसस्य पारिवारिक-परम्परायाः तथा बङ्गालस्य समृद्ध-कृषि-संस्कृतेः अपि जीवन्तं प्रतीकं मन्यते।

Hindusthan Samachar / Divya Ranjan