भारत-नेपालयोः जलविद्युत्, विद्युत्-व्यापाराणां तथा प्रसारण-परियोजनानां समीक्षा कृता
काठमाण्डूनगरम्, १६ जुलाईमासः (हि.स.)। भारत-नेपालयोः ऊर्जाक्षेत्रे द्विपक्षीय-सहयोगस्य सुदृढीकरणस्य उद्देशेन पोखरानगरे भारत-नेपाल-संयुक्त-सञ्चालन-समितेः त्रयोदशी सभा आयोजिता। अस्याः सभायाः सहाध्यक्षतां भारत-सर्वकारस्य विद्युत्-मन्त्रालयस्य सचिवः पङ्
नेपाल भारत के बीच ऊर्जा सचिव स्तरीय बैठक


काठमाण्डूनगरम्, १६ जुलाईमासः (हि.स.)। भारत-नेपालयोः ऊर्जाक्षेत्रे द्विपक्षीय-सहयोगस्य सुदृढीकरणस्य उद्देशेन पोखरानगरे भारत-नेपाल-संयुक्त-सञ्चालन-समितेः त्रयोदशी सभा आयोजिता। अस्याः सभायाः सहाध्यक्षतां भारत-सर्वकारस्य विद्युत्-मन्त्रालयस्य सचिवः पङ्कज-अग्रवालः तथा नेपाल-सर्वकारस्य ऊर्जा-जलस्रोत-सिञ्चन-मन्त्रालयस्य सचिवा सरिता-दवाडी वहितवत्यौ।

अस्मात् पूर्वं भारत-नेपाल-संयुक्त-कार्य-समूहस्य त्रयोदशी सभा अपि पोखरानगरे आयोजिता। अस्याः सहाध्यक्षतां भारतस्य विद्युत्-मन्त्रालयस्य संयुक्त-सचिवः पङ्कज-कुमारः तथा नेपालस्य ऊर्जा-जलस्रोत-सिञ्चन-मन्त्रालयस्य संयुक्त-सचिवः सन्दीप-कुमार-देवः कृतवन्तौ।

काठमाण्डूस्थित-भारतीय-दूतावासस्य वक्तव्ये उक्तं यत्, एतासु सभासु भारत-नेपालयोः ऊर्जाक्षेत्रे प्रवर्तमानस्य सहयोगस्य व्यापक-समीक्षा कृता। अस्मिन् अवसरे जलविद्युत्-परियोजनानां विकासः, सीमापार-विद्युत्-व्यापारः तथा विद्युत्-प्रसारण-अवसंरचनायाः सम्बन्धिषु विविधविषयेषु विस्तरेण चर्चा अभवत्।

उभाभ्यां पक्षाभ्यां ४०० केवी गोरखपुर–न्यू-बुटवल-प्रसारण-रेखां समावेश्य नवीन-प्रसारण-रेखाणां निर्माणे अभवत् प्रगतिं प्रति सन्तोषः व्यक्तः। सहैव प्रवर्तमानानां प्रस्तावितानां च विद्युत्-उत्पादन-प्रसारण-परियोजनानां कार्यान्वयनं शीघ्रीकर्तुं सुकरं कर्तुं च उपायेषु अपि विचारविमर्शः कृतः।

सभायां भारतीय-नेपाली-विद्युत्-जालयोः समन्वित-सञ्चालनम्, सौर-ऊर्जा-परियोजनानां विकासः, हरित-हाइड्रोजन-क्षेत्रे सहयोगः तथा नेपाली-ऊर्जा-विशेषज्ञानां क्षमता-विकासः इत्यादयः विषयाः अपि प्रमुखतया चर्चिताः।

संयुक्त-सञ्चालन-समितेः सभातः पूर्वं १४ जुलाईमासे भारतस्य विद्युत्-सचिवः पङ्कज-अग्रवालः नेपालस्य ऊर्जा-जलस्रोत-सिञ्चन-मन्त्री बिराज-भक्त-श्रेष्ठेन सह शिष्टाचार-साक्षात्कारं कृत्वा ऊर्जा-सहयोगस्य विविधेषु पक्षेषु चर्चाम् अकरोत्।

उभाभ्यां देशाभ्यां विश्वासः व्यक्तीकृतः यत् संयुक्त-सञ्चालन-समितेः सभायाः निष्कर्षाः भारत-नेपालयोः ऊर्जा-सहयोगं अधिकं सुदृढं करिष्यन्ति तथा भविष्यस्य संयुक्त-ऊर्जा-परियोजनानां प्रवर्तनाय महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

Hindusthan Samachar / Divya Ranjan