संसद-सत्रं तथा भाजपायाः सङ्घटने सम्भावित-परिवर्तनानि आधृत्य प्रधानमन्त्री-निवासे महत्त्वपूर्णा सभा अभवत्
नवदेहली, १६ जुलाईमासः (हि.स.)। भारतीय-जनता-पक्षस्य राष्ट्रियाध्यक्षस्य नितिन-नवीनस्य नूतन-कार्यकारिण्याः गठनं तथा २० जुलाईमासतः आरभ्यमाणं संसदः वर्षाकालीन-सत्रम् अधिकृत्य बुधवासरे रात्रौ प्रधानमन्त्रिणः निवासे पक्षस्य शीर्ष-नेतॄणां महत्त्वपूर्णा सभ
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदेहली, १६ जुलाईमासः (हि.स.)। भारतीय-जनता-पक्षस्य राष्ट्रियाध्यक्षस्य नितिन-नवीनस्य नूतन-कार्यकारिण्याः गठनं तथा २० जुलाईमासतः आरभ्यमाणं संसदः वर्षाकालीन-सत्रम् अधिकृत्य बुधवासरे रात्रौ प्रधानमन्त्रिणः निवासे पक्षस्य शीर्ष-नेतॄणां महत्त्वपूर्णा सभा अभवत्।

सूत्रानुसारं अस्यां सभायां प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित-शाहः, भाजपा-राष्ट्रियाध्यक्षः नितिन-नवीनः, राष्ट्रिय-महासचिवः (सङ्घटनम्) बी.एल. सन्तोषः इत्यादयः प्रमुख-नेतारः उपस्थिताः आसन्। एषा सभा प्रायः त्रिहोरापर्यन्तं प्रचलिता। तथापि अस्याः सभायाः विषये पक्षेण अद्यावधि काचिदपि आधिकारिक-सूचना न प्रदत्ता।

पक्षस्य अन्य-सूत्रानुसारम् एषा सभा केवलं संसदः अग्रिम-सत्रस्य सज्जतायै नासीत्, अपितु सर्वकारस्य भाजपा-सङ्गठनस्य च व्यापक-परिवर्तनानां दिशां निर्धारयितुं महत्त्वपूर्णा श्रृंखलाम् इव मन्यते। राजनैतिक-क्षेत्रेषु अस्याः बैठकायाः विषये विशेष-चर्चा प्रवर्तते, यतः गत-दिनेषु आयोजितानां विभिन्न-सभानां निर्णयानां अन्तिमरूपं बुधवासरस्य रात्रौ दत्तम् इति मन्यते।

विश्वसनीय-सूत्रानुसारम् अस्याः सभायाः पूर्वं गत-दिनेषु पञ्च महत्त्वपूर्णाः सभा: सम्पन्नाः। प्रथमा सभा प्रधानमन्त्रिणः निवासे अभवत्, यस्याम् केन्द्रीय-मन्त्रिणः वरिष्ठ-अधिकारिणश्च सहभागिनः आसन्। तदनन्तरं द्वितीया सभा रक्षामन्त्रिणः राजनाथसिंहस्य निवासे अभवत्, यस्याम् अमित-शाहः, नितिन-नवीनः, बी.एल. सन्तोषः इत्यादयः उपस्थिताः आसन्। तृतीये चरणे प्रधानमन्त्री वरिष्ठ-अधिकारिभिः सह पृथक् चर्चाम् अकरोत्। चतुर्थी सभा अमित-शाहस्य नितिन-नवीनस्य च मध्ये अभवत्। पञ्चमी सभा १४ जुलाईमासस्य रात्रौ गृहमन्त्रिणः अमित-शाहस्य निवासे आयोजिता, यस्याम् महाराष्ट्रस्य उपमुख्यमन्त्री एकनाथ-शिन्दे अपि सहभागी अभवत्। पश्चात् नितिन-नवीनः तथा बी.एल. सन्तोषः अपि तस्यां सभायां सम्मिलितौ।

विशेषज्ञाः मन्यन्ते यत् एतासां सभानां सम्पूर्ण-श्रृङ्खलायाः उद्देश्यं सर्वकारस्य सङ्घटनस्य च स्तरयोः व्यापक-रणनीतेः निर्माणम् आसीत्। बुधवासरे प्रधानमन्त्रिणः निवासे सम्पन्ना सभा अस्याः प्रक्रियायाः अन्तिमा तथा सर्वाधिक-महत्त्वपूर्णा अवस्था इति मन्यते।

सभायां प्रथमं २० जुलाईमासतः आरभ्यमाणस्य संसदः वर्षाकालीन-सत्रस्य विस्तृत-रणनीतेः विषये चर्चा अभवत्। विपक्षेण उत्थापनीयानां सम्भावित-विषयाणां, सर्वकारस्य विधायी-प्राथमिकतानां, संसदि समन्वयस्य तथा विभिन्न-मन्त्रालयानां सज्जतायाः समीक्षा कृता। सर्वकारस्य अभिप्रायः अस्ति यत् संसदः सत्रे प्रमुख-विधेयकानि नीतिगत-निर्णयाश्च प्रभावी-रीत्या प्रस्तुताः भवेयुः तथा विपक्षस्य आक्षेपाणां तथ्यात्मक-राजनैतिक-दृष्ट्या समुचितं उत्तरं दीयेत।

सभायाः द्वितीयः प्रमुख-विषयः भाजपा-सङ्घटनस्य संरचनायां सम्भावित-परिवर्तनम् आसीत्। अद्यतन-राष्ट्रियाध्यक्षत्वं स्वीकृतवता नितिन-नवीनेन सह पक्षस्य नूतन-राष्ट्रीय-कार्यकारिण्याः गठनस्य विषये विस्तृतः विचार-विमर्शः अभवत्। सङ्गठने विभिन्न-स्तरेषु नूतन-दायित्व-वितरणं, राज्येषु समन्वय-वर्धनम् तथा निर्वाचन-राज्येषु विशेष-रणनीतेः निर्माणम् अपि चर्चायाः विषयः आसीत्।

सूत्रानुसारं केन्द्रीय-मन्त्रिपरिषदि सम्भावितः मन्त्रिमण्डल-परिवर्तनम् अपि सभायाः महत्त्वपूर्णः विषयः आसीत्। केषां मन्त्रिणां विभागेषु परिवर्तनं भविष्यति, केभ्यः नूतन-मुखेभ्यः सर्वकारे अवसरः प्रदास्यते, राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्य घटकदलानां प्रतिनिधित्वं कथं सुनिश्चितं क्रियेत इत्यादिषु शीर्ष-नेतृत्वेन मन्थनम् अभवत्।

सभायाम् अग्रिम-विधानसभा-निर्वाचन-युक्त-राज्यानां राजनैतिक-स्थितेः अपि समीक्षा कृता। राज्येषु पक्ष-सङ्गठनस्य सज्जता, प्रचार-अभियानम्, मतदान-केन्द्र-प्रबन्धनम्, सहयोगि-दलैः सह समन्वयः तथा स्थानीय-विषयेषु विशेष-रणनीतिः इत्यादिषु विस्तृता चर्चा अभवत्। भाजपा-नेतृत्वस्य मुख्य-केन्द्रबिन्दुः निर्वाचन-राज्येषु सङ्गठनं अधिकं सक्रियं प्रभावत्मकं च कर्तुम् अस्ति। राजनैतिक-विश्लेषकाः मन्यन्ते यत् निरन्तर-बहु-चरणीय-सभानाम् अनन्तरं प्रधानमन्त्रिणः निवासे सम्पन्ना एषा उच्चस्तरीया सभा भाजपा-सर्वकारयोः अग्रिम-कार्ययोजनायाः स्पष्टं सङ्केतं ददाति।

Hindusthan Samachar / Divya Ranjan