Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १६ जुलाईमास: (हि.स.)। भगवत: जगन्नाथस्य पवित्र-रथयात्रायाः शुभावसरे गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी तथा पश्चिमबङ्गस्य विपक्षनेता शुभेन्दु-अधिकारी शुभकामनाः प्रदत्तवन्तौ। उभाभ्यामपि नेतृभ्यां भगवज्जगन्नाथात् सर्वेषां सुख-शान्ति-समृद्धेः उत्तम-स्वास्थ्यस्य च कामना कृता। रथयात्रा श्रद्धायाः, ऐक्यस्य तथा सांस्कृतिक-परम्परायाः प्रतीकत्वेन वर्णिता।
प्रधानमन्त्री मोदी सामाजिक-माध्यमे एक्स इत्यत्र अलिखत् यत् रथयात्रायाः पावनावसरे सर्वेभ्यः शुभकामनाः। एषा भारतस्य शताब्दि-प्राचीनायाः आध्यात्मिक-सांस्कृतिक-परम्परायाः अद्भुता अभिव्यक्तिरस्ति। रथयात्रासम्बद्धाः परम्पराः भारते विश्वे च बहून् वंशान् प्रेरितवन्त्यः। एताः परम्पराः विनयस्य, सामूहिक-सहभागितायाः तथा निःस्वार्थ-सेवायाः प्रतीकाः सन्ति।
प्रधानमन्त्री महाप्रभोः जगन्नाथस्य समीपे सर्वेषाम् उत्तम-स्वास्थ्यस्य, सुखस्य, समृद्धेश्च कामनामकरोत्। सः उक्तवान् यत् प्रभुः अस्माकं सर्वेषु प्रयासेषु शक्तिं ददातु तथा समाजे ऐक्यभावनां अधिकं दृढां करोतु।
शुभेन्दु-अधिकारी अपि एक्स इत्यत्र भगवन्तं जगन्नाथं, भगवन्तं बलभद्रं, मातरं सुभद्रां च प्रणम्य उक्तवान् यत् प्रभोः अनुग्रहेण सर्वेषां जीवनं सुख-शान्ति-समृद्धिभिः परिपूर्णं भवतु। तेन राष्ट्रस्य, समाजस्य, समस्त-मानवजातेश्च कल्याणस्य कामना कृता। सर्वेभ्यः रथयात्रायाः हार्दिक-शुभकामनाः प्रदाय “जय जगन्नाथ” इति उद्घोषः कृतः।
अपरतः रथयात्रायाः अवसरे भाजपा-नेता दिलीप-घोषः स्वमात्रा स्वभार्यया च सह नदिया-जनपदस्य मायापुरस्थितम् इस्कॉन-प्रधानालयम् अगच्छत्। तेन मायापुर-चन्द्रोदय-मन्दिरे भगवत: आरार्तिकी कृता, गोपूजने गोसेवायां च सहभागिता कृता। तेन स्वहस्ताभ्यां गोभ्य: भोजनं प्रदत्तम्, तासां चरणा: प्रक्षालिता:, यज्ञेऽपि सहभागिता कृता। अस्मिन् अवसरे सः उक्तवान् यत् इस्कॉन-सदृशस्य प्रतिष्ठित-संस्थायाः रथयात्रायां सहभागित्वेन सः अत्यन्तं हृष्टः अस्ति।
Hindusthan Samachar / Divya Ranjan