Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः अद्य प्रातःकाले भगवान् जगन्नाथस्य स्मरणम् अकरोत्। तेन प्रभोः समीपे देशवासिनां जीवने नूतनऊर्जायाः सञ्चाराय प्रार्थना कृता। अस्मिन् अवसरे प्रधानमन्त्री एक्स-माध्यमे सुभाषितस्य श्रव्यदृश्यरूपं सामायिकीकृतवान्। भगवानः जगन्नाथस्य रथयात्रा अद्य ओडिशाराज्यस्य पुरीनगरे प्रारभ्यते। विश्वविख्यातां तां रथयात्रां द्रष्टुं देशविदेशेभ्यः बहवः पर्यटकाः समुपागताः सन्ति।
प्रधानमन्त्री नरेन्द्रमोदीः एक्स-माध्यमे एतत् सुभाषितं यद्“देवदेव जगन्नाथ सुरासुरनमस्कृत। पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥” — सामायिकीकृत्य अलिखत्, “महाप्रभोः जगन्नाथस्य पवित्ररथयात्रायाः शुभावसरे मम कामना अस्ति यत् तस्य आशीर्वादः अस्मासु सर्वेषु सर्वदा विराजमानः भवतु। तस्य दिव्यकृपया सर्वेषां देशवासिनां जीवने नूतनऊर्जायाः सञ्चारः भवतु।”
श्रव्यदृश्यरूपे एषा वाणी श्रूयते, “देवानामपि देवः सम्पूर्णजगतः स्वामी भगवान् जगन्नाथः देवेभ्यः आरभ्य समस्तप्राणिभिः पूज्यते। तस्य यशः पवित्रं कल्याणकरं च अस्ति। सः अव्ययः, अनन्तः, समस्तप्राणिनां हृदयेषु विराजमानः परमात्मा च अस्ति। तादृशाय भगवाने जगन्नाथाय पुनः पुनः नमः।”
---------------
Hindusthan Samachar / Dheeraj Maithani