राष्ट्रपतिः, उपराष्ट्रपतिः, लोकसभाध्यक्षश्च अददुः जगन्नाथ रथयात्रायाः शुभकामनाः
नव दिल्ली, 16 जुलाईमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णन्, लोकसभाध्यक्षः ओम् बिरला च अन्ये च बहवः नेतारः भगवानः जगन्नाथस्य पवित्ररथयात्रायाः शुभावसरे देशवासिभ्यः हार्दिकाः शुभकामनाः प्रदत्तवन्तः। राष्ट्रपतिः मुर्मु
प्रतीकात्मक


नव दिल्ली, 16 जुलाईमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णन्, लोकसभाध्यक्षः ओम् बिरला च अन्ये च बहवः नेतारः भगवानः जगन्नाथस्य पवित्ररथयात्रायाः शुभावसरे देशवासिभ्यः हार्दिकाः शुभकामनाः प्रदत्तवन्तः। राष्ट्रपतिः मुर्मु अद्य एक्स माध्यमे अलिखत्, “महाप्रभोः पवित्ररथयात्रायाः अस्मिन् शुभावसरे अहं देशविदेशेषु निवसद्भ्यः श्रीजगन्नाथस्य सर्वेभ्यः भक्तेभ्यः हार्दिकाः शुभकामनाः ददामि। धार्मिकमान्यतानुसारम् अस्याः पवित्रशोभायात्रायाः महानपरम्परायाम् महाप्रभुः श्रीजगन्नाथः चक्रराजेन सुदर्शनेन ज्येष्ठभ्रात्रा बलभद्रेण भगिन्या सुभद्रया च सह भक्तान् समागच्छति। भक्तानां प्रभोश्च अयं भावपूर्णः समागमः अद्वितीयः अस्ति। मम प्रार्थना अस्ति यत् महाप्रभोः श्रीजगन्नाथस्य कृपया अस्माकं देशस्य अत्रत्यजनानां च सुखसमृद्ध्योः निरन्तरं वृद्धिः भवतु। जय जगन्नाथ।”

उपराष्ट्रपतिः अवदत् यत् पवित्ररथयात्रा श्रद्धायाः भक्तेः समानतायाः परस्परसौहार्दस्य च मूल्यानि प्रतिपादयति तथा सर्वान् मतभेदान् अतिक्रम्य जनान् एकत्र आनयति। एषा अस्माकं समृद्धसांस्कृतिकविरासतायाः चिरस्थाय्याः आध्यात्मिकपरम्परायाश्च जीवन्तः उत्सवः अस्ति। महाप्रभोः जगन्नाथस्य दिव्यमाशीर्वादः अस्मान् सत्यस्य धर्मस्य च मार्गे चलितुं प्रेरयतु, अस्माकं सामूहिकसंकल्पं दृढं करोतु, समग्रे देशे शान्तेः ऐक्यस्य च संवर्धनं करोतु।

ओम् बिरला अवदत् यत् भगवानः श्रीजगन्नाथस्य रथयात्रा भारतीयसंस्कृतेः तस्याः शाश्वतचेतनायाः दिव्यः उत्सवः अस्ति, यत्र श्रद्धा, आध्यात्मिकता, जनकल्याणं च अद्भुतरूपेण समागच्छन्ति। एषः केवलं भक्तेः श्रद्धायाश्च भव्यः उत्सवः न, अपितु अस्माकं सनातनसांस्कृतिकपरम्परायाः जीवन्तः प्रतीकः अपि अस्ति, या युगयुगान्तरात् जनानां हृदयेषु श्रद्धां सौहार्दं सेवाभावं आध्यात्मिकचेतनां च सञ्चारितवती। एषा महान् परम्परा अस्मान् स्मारयति यत् जीवनस्य सारः धर्मस्य कर्तव्यस्य विनयस्य समर्पणस्य च मार्गे निरन्तरं अग्रे गमने निहितः अस्ति तथा च समाजस्य राष्ट्रस्य च व्यापककल्याणाय आत्मसमर्पणमेव वास्तविकसाधना अस्ति।

केन्द्रीयगृहसहकारितामन्त्री अमित शाह अवदत् यत् विश्वविख्याता जगन्नाथरथयात्रा अटूटश्रद्धायाः विश्वासस्य भक्तेश्च प्रतीका अस्ति। अहं भगवानं जगन्नाथं सर्वेषां सुखसमृद्धिकल्याणार्थं प्रार्थये।

केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिन् गडकरी अवदत् यत् रथयात्रायाः एषः पवित्रः उत्सवः सर्वेषां जीवने शान्तिं समृद्धिं सुखानि च आनयतु।

रक्षामन्त्री राजनाथ सिंह अवदत् यत् भगवानः श्रीजगन्नाथस्य कृपा भवतां जीवने सुखं शान्तिं समृद्धिं सकारात्मकऊर्जां च सञ्चारयतु। जय जगन्नाथ।

केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंह शेखावत अवदत् यत् रथयात्रा भारतस्य सनातनसंस्कृतेः लोकपरम्पराणां सामाजिकसौहार्दस्य च जीवन्ततां स्पष्टरूपेण प्रकाशयति। भगवानः जगन्नाथस्य बलभद्रस्य मातुः सुभद्रायाश्च कृपा सर्वेषां जीवने सुखं समृद्धिं शुभत्वं च आनयतु तथा अस्माकं सांस्कृतिकविरासता सदा समृद्धा अक्षुण्णा च तिष्ठतु।

केन्द्रीयवस्त्रमन्त्री गिरिराज सिंह अवदत् यत् भगवानः जगन्नाथस्य, तस्य भ्रातुः बलभद्रस्य, देवीसुभद्रायाश्च रथानां एषा दिव्यशोभायात्रा समग्रे देशे सुखं शान्तिं समृद्धिं सौहार्दं च प्रसारयतु, इति मम मङ्गलकामना।

---------------

Hindusthan Samachar / Dheeraj Maithani