सर्वेषां जीवने सुखं, शांतिः, समृद्धिः आरोग्यता च इत्येषां वासस्स्यात् : योगी आदित्यनाथः
लखनऊ,16 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः भगवानः श्रीजगन्नाथस्य रथयात्राशुभारम्भावसरे प्रदेशवासिभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रेषितवान्। सः सर्वेषां जीवने सुखस्य, शान्तेः, समृद्धेः च कामनाम् अकरोत्। मुख्यमन्
मुख्यमंत्री योगी


लखनऊ,16 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः भगवानः श्रीजगन्नाथस्य रथयात्राशुभारम्भावसरे प्रदेशवासिभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रेषितवान्। सः सर्वेषां जीवने सुखस्य, शान्तेः, समृद्धेः च कामनाम् अकरोत्।

मुख्यमन्त्री योगी आदित्यनाथः स्वसामाजिकमाध्यमलेखे लिखितवान् यत् “सनातनसंस्कृतेः अगाधश्रद्धायाः, सामाजिकसमरसतायाः, लोकमङ्गलस्य च पवित्रप्रतीका महाप्रभोः श्रीजगन्नाथस्य पावनरथयात्रायाः शुभारम्भावसरे सर्वेभ्यः श्रद्धालुभ्यः मम हार्दिकाः शुभकामनाः अभिनन्दनानि च। महाप्रभोः श्रीजगन्नाथस्य, श्रीबलभद्रस्य, माता सुभद्रायाश्च कृपादृष्टिः चराचरजगति सर्वदा विराजताम्। सर्वेषां जीवने सुखं, शान्तिः, समृद्धिः, आरोग्यं च वसतु—इति मम प्रार्थना। जय जगन्नाथः।”

Hindusthan Samachar / Dheeraj Maithani