अखिलेश यादवस्य सर्वाणि उद्देश्यानि निर्वाचनसंबद्धानि : केशव प्रसाद मौर्यः
वाराणसी, 16 जुलाईमासः (हि. स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादः मौर्यः गुरुवासरे वाराणसीनगरस्य प्रवासे आसीत्। तेन वाराणस्यां दुर्गाकुण्डस्थिते बनकटीहनुमन्मन्दिरे दिव्यदर्शनं कृतम्, पूजनम् आरात्रिकां च सम्पन्नां कृत्वा किञ्चित्कालं मन्दिरे
आरती करते हुए केशव प्रसाद मौर्य


वाराणसी, 16 जुलाईमासः (हि. स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादः मौर्यः गुरुवासरे वाराणसीनगरस्य प्रवासे आसीत्। तेन वाराणस्यां दुर्गाकुण्डस्थिते बनकटीहनुमन्मन्दिरे दिव्यदर्शनं कृतम्, पूजनम् आरात्रिकां च सम्पन्नां कृत्वा किञ्चित्कालं मन्दिरे उपविश्य साधनाम् अकरोत्।

अवसरेऽस्मिन् पत्रकारैः सह संवादं कुर्वन् सः अवदत् यत् समाजवादीपक्षस्य अध्यक्षः अखिलेशः यादवः रामद्रोही शिवद्रोही च अस्ति। तस्य सर्वे कार्यक्रमाः केवलं निर्वाचनकेन्द्रिताः भवन्ति। जनतायाः समक्षं एतत् सर्वं स्पष्टमेव अस्ति।

उपमुख्यमन्त्री केशवप्रसादः मौर्यः उक्तवान् यत् सङ्कटमोचनप्रभोः श्रीहनूमतः श्रीचरणयोः समस्तप्रदेशवासिनाम् उत्तमस्वास्थ्याय, सुखसमृद्धये, मङ्गलमयजीवनाय च प्रार्थनां करोमि। अधुना अहं परिवर्तितां काशीं पश्यामि। पूर्वं काङ्ग्रेससमाजवादीपक्षबहुजनसमाजपक्षसर्वकाराणां काले या काशी दृश्यते स्म, अधुना भारतीयजनतापक्षस्य सर्वकारे या काशी दृश्यते, सा सर्वथा परिवर्तिता अस्ति।

पत्रकारान् सम्बोधयन् उपमुख्यमन्त्री पुनरपि अखिलेशयादवं लक्ष्यीकृत्य अवदत् यत् सः रामद्रोही शिवद्रोही च अस्ति तथा तस्य सर्वे कार्यक्रमाः निर्वाचनाभिमुखाः एव भवन्ति। तस्य वक्तव्येषु विशेषं ध्यानं दातुं आवश्यकता नास्ति। जनतैव जानाति यत् श्रीराममन्दिरनिर्माणार्थं संघर्षः केन कृतः। समये आगते जनतैव अखिलेशयादवाय उत्तरं दास्यति।

अस्मिन्नवसरे विधायकः सौरभः श्रीवास्तवः, पूर्वमहापौरः कौशलेन्द्रः सिंहः तथा भारतीयजनतापक्षस्य अन्येऽपि बहवः कार्यकर्तारः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani