Enter your Email Address to subscribe to our newsletters



– भक्त्या उल्लासेन च पारम्परिक-शोभायात्रा निर्गता, श्रद्धालूनां विशिष्ट-जनानां च व्यापक-सहभागिता अभवत्
वाराणसीनगरम्, १६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिक-नगरे वाराणस्यां आषाढमासस्य शुक्लपक्षस्य द्वितीया-तिथ्याः अवसरे गुरुवासरे काश्याः रक्षक: बाबा कालभैरवः परम्परानुसारं नगरभ्रमणाय निर्गतः। विश्वप्रसिद्धस्य रथयात्रा-मेलापकस्य प्रथमदिवसे आयोजितायां अस्यां भव्य-शोभायात्रायां श्रद्धालूनाम् उत्साहः दर्शनीयः आसीत्। नगरभ्रमणात् पूर्वं बाबा कालभैरवस्य पञ्चवदन-स्वर्ण-रजत-प्रतिमां विधिविधानपूर्वकं रथे विराजमानां कृत्वा विशेष-आरार्तिकी कृता।
स्वर्णकार-क्षत्रिय-समित्याः आयोजनत्वेन चौखम्भास्थितायाः काष्ठ-हवेली-इत्यस्या: प्रातः श्रद्धया उल्लासेन च शोभायात्रायाः शुभारम्भः अभवत्।
विशाल-डमरूणां निनादेन जयघोषैश्च सम्पूर्णः प्रदेशः भक्तिमयः अभवत्। शोभायात्रायाः अग्रभागे अश्वारूढः आरक्षकसमूह: प्रचलितः। तस्य पृष्ठतः ताशा-वाद्यदलम्, ध्वजधारिणः श्रद्धालवः, छत्रयुक्तेषु अश्वेषु देवस्वरूपं धारयन्तः कलाकाराः, बाबा-कालभैरवस्य गणानां प्रदर्शिन्य:, वाद्यं तथा पाइप-वाद्यस्य आकर्षक-प्रस्तुतयः श्रद्धालूनाम् आकर्षणस्य केन्द्रत्वेन अभवन्। शोभायात्रायां समितेः संस्थापकयोः स्वर्गीय-किशुनदासस्य स्वर्गीय-भीखूसिंहस्य च चित्रे सुशोभित-यानके स्थापिते आस्ताम्। तयोः परिवारजनैः सह विविध-सामाजिक-धार्मिक-संस्थानां प्रतिनिधयः अपि यात्रायां सहभागीन: अभवन्।
एषा शोभायात्रा चौखम्भास्थितायाः काष्ठ-हवेली-इत्यस्या: आरभ्य बीबी-हटिया, जतनबर:, विश्वेश्वरगञ्ज:, महामृत्युञ्जय:, दारानगर:, मैदागिन, बुलानाला, चौक, नारिकेल-बाजार, गोविन्दपुरा, ठठेरी-बाजार, सोराकूप, गोलघर तथा भूतही-इमली इत्येतानि स्थानानि अतिक्रम्य भैरवनाथ-चत्वरे सम्पन्ना अभवत्। अस्मिन् वर्षे शोभायात्रायां माता वैष्णोदेव्याः आकर्षक-प्रदर्शिनी विशेष-आकर्षणस्य केन्द्रत्वेन आसीत्। नीरज-सेठस्य नेतृत्वे न्यू-लाइफ-इवेण्ट-प्लानर-संस्थायाः कलाकाराः भजन-प्रस्तुतिभिः सम्पूर्णमार्गे श्रद्धालून् भक्तिरसेन आप्लावितवन्तः। एतदतिरिक्तं गोविन्देश्वर-महादेवस्य, हनुमतः प्रदर्शिन्या: तथा डमरू-दलस्य प्रस्तुतीः शोभायात्रायाः भव्यतां वर्धितवन्त्यः।
स्वर्णकार-क्षत्रिय-समित्याः अध्यक्षः घनश्याम-सेठः ‘बच्चा’ इत्याख्यः अवदत् यत् शोभायात्रा-मार्गे विभिन्न-स्थानेषु श्रद्धालुभिः बाबा कालभैरवस्य पुष्पवृष्ट्या स्वागतं कृतम्। पूजनम् अर्चनं च कृत्वा आरार्तिकी अपि कृता। अनेकैः सामाजिक-संस्थाभिः भक्तैश्च विविध-स्थलेषु स्वागत-मञ्चाः निर्मिताः, यत्र बाबा-कालभैरवस्य दर्शनं कृतम्।
तेन उक्तं यत् कालभैरव-मन्दिरे सायंकाले पण्डित-जयकृष्ण-दीक्षितस्य आचार्यत्वे वैदिक-मन्त्र-उच्चारणेन सह वसन्त-पूजा सम्पद्यते, रात्रौ च एकादशवादने बाबा-कालभैरवस्य महारार्तिकी आयोज्यते।
घनश्याम-सेठेन उक्तं यत् परम्परानुसारं काशी-नगरे विश्वप्रसिद्धस्य रथयात्रा-मेलापकस्य प्रथमदिने बाबा कालभैरवस्य स्वर्ण-रजत-प्रतिमा प्रतीकात्मकरूपेण नगरभ्रमणाय निर्गच्छति। जनश्रुत्यनुसारम् अनेन भ्रमणेन काश्याः रक्षक: नगरस्य व्यवस्थाः निरीक्षते तथा भक्तानां सुख-दुःखानि प्रतीकात्मकरूपेण शृणोति।
धार्मिक-मान्यतानुसारं बाबा कालभैरवस्य अनुमतिं विना काश्यां कस्यापि प्रवेशः निवासो वा पूर्णः न मन्यते। अतः एव सः काश्याः रक्षक: तथा नगरस्य रक्षकः इति कथ्यते। स्वर्णकार-क्षत्रिय-समित्याः पदाधिकारिणां मते, १९५४ तमे वर्षे निर्मितायाः बाबा कालभैरवस्य स्वर्ण-रजत-पञ्चवदन-प्रतिमायाः एषा पारम्परिक-शोभायात्रा प्रतिवर्षम् आषाढ-शुक्ल-द्वितीयायां निर्गच्छति। अस्याम् पूर्वाञ्चलस्य काश्याश्च जनप्रतिनिधयः, राज्यमन्त्रिणः, मठ-मन्दिराणां पीठाधीश्वराः, सामाजिक-आध्यात्मिक-संस्थानां प्रतिनिधयः तथा स्वर्णकार-समाजस्य सहस्रशः जनाः श्रद्धापूर्वकं सहभागित्वं कुर्वन्ति।
अस्मिन् वर्षे एतेषां विशेष-उपस्थितिरेव आसीत्— आयुष-राज्यमन्त्री (स्वतन्त्र-प्रभारः) डॉ. दयाशङ्कर-मिश्रः ‘दयालुः’, विधायकः पूर्वमन्त्री च डॉ. नीलकण्ठ-तिवारी, पार्षदः सञ्जय-विश्वम्भरी, मनोज-यादवः, कनकलता-मिश्रा, पूर्व-पार्षदः बृजकिशोर-दासः, रविशङ्कर-सिंहः, अशोक-सेठः, किशोर-सेठः, मनोज-सिंहः इत्यादयः शोभायात्रायां उपस्थिताः आसन्। एतेभ्यः अतिथिभ्यः अङ्गवस्त्रं प्रदाय सम्मानं कृतम्।
Hindusthan Samachar / Divya Ranjan