Enter your Email Address to subscribe to our newsletters

अल्माेड़ा , 16 जुलाईमासः (हि.स.)।
मुख्यमन्त्री पुष्करसिंहधामी अद्य विश्वप्रसिद्धं जागेश्वरधाम प्राप्य पारम्परिकविधिना वैदिकमन्त्रउच्चारणपूर्वकं श्रावणीमेलायाः विधिवत् शुभारम्भम् अकरोत्।
अस्मिन्नवसरे तेन जागेश्वरधाम्नः दर्शनं पूजार्चनां च कृत्वा प्रदेशस्य सुखसमृद्धये सर्वेषां जनानां कल्याणाय च प्रार्थना कृता।
मुख्यमन्त्री श्रावणीमेलायाः सफलसुरक्षितसम्पादनस्य मङ्गलकामनां कृत्वा प्रदेशवासिनः देशविदेशेभ्यः समागतान् श्रद्धालून् च हरेलापर्वणः हार्दिकाः शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री धामी उक्तवान् यत् उत्तराखण्डस्य समृद्धा सांस्कृतिका धार्मिकपरम्परा च अस्माकं महानिधिः अस्ति। हरेलापर्व केवलं पर्व नास्ति अपितु प्रकृतिसंरक्षणस्य पर्यावरणसंवर्धनस्य मानवप्रकृत्योः अखण्डसम्बन्धस्य च प्रतीकमस्ति। तेन सर्वेभ्यः नागरिकेभ्यः अधिकाधिकं वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य संकल्पः करणीयः इति आह्वानं कृतम्। अस्मिन्नवसरे मुख्यमन्त्री जागेश्वरमन्दिरपरिसरे वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशमपि प्रदत्तवान्।
श्रावणीमेलायाः उद्घाटनावसरे आयोजितां जनसभां सम्बोधयन् मुख्यमन्त्री धामी उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः कुशलनेतृत्वेन मार्गदर्शनेन च राज्यसर्वकारः देवभूमेः उत्तराखण्डस्य धार्मिकसांस्कृतिकाध्यात्मिकपरिचयस्य संरक्षणसंवर्धनयोः प्रति पूर्णप्रतिबद्धतया कार्यं करोति। तेन उक्तं यत् जागेश्वरधाम भारतस्य प्राचीना आध्यात्मिकपरम्परायाः महत्त्वपूर्णं केन्द्रम् अस्ति तथा अत्र आगत्य प्रत्येकः जनः दिव्यां ऊर्जां आध्यात्मिकीं शान्तिं च अनुभवति।
मुख्यमन्त्री उक्तवान् यत् जागेश्वरमास्टरप्लानस्य अन्तर्गतं प्रायः सप्तचत्वारिंशदधिकशतकोटिरूप्यकव्ययेन जागेश्वरधाम्नः सौन्दर्यीकरणं आधारभूतसुविधानां विकासश्च क्रियते। अस्यां परियोजनायां मन्दिरपरिसरस्य प्राचीना गरिमा मूलस्वरूपं च सुरक्षितं स्थापयित्वा श्रद्धालूनां सुविधाः विस्तारिताः भवन्ति। अनेन धार्मिकसांस्कृतिकपर्यटनाय नूतना गतिः भविष्यति, स्थानीययुवभ्यः रोजगारावसराः वर्धिष्यन्ते, क्षेत्रस्य अर्थव्यवस्था च दृढा भविष्यति।
तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः जागेश्वरधामागमनानन्तरं देशस्य सर्वेषां श्रद्धालूनां मध्ये अस्य पवित्रधाम्नः प्रति विशेषाकर्षणं वर्धितम्। अस्य परिणामस्वरूपं गतद्विमासयोः चतुःलक्षाधिकाः श्रद्धालवः जागेश्वरधाम प्राप्नुवन्। आगामिषु कालेषु एषा सङ्ख्या अधिका भविष्यति, येन स्थानीयव्यापारः पर्यटनं स्वरोजगारश्च व्यापकं लाभं प्राप्स्यन्ति। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः विकल्परहितसंकल्प इति मन्त्रं पुरस्कृत्य उत्तराखण्डस्य सर्वाङ्गीणविकासाय कार्यं करोति। इञ्जिनद्वयसर्वकारस्य समन्वितप्रयत्नैः धार्मिकपर्यटनस्य आधारभूतसंरचनायाः सम्पर्कव्यवस्थायाः स्वास्थ्यशिक्षारोजगारक्षेत्रेषु अभूतपूर्वाणि कार्याणि क्रियमाणानि सन्ति।
तेन विश्वासः व्यक्तीकृतः यत् जनसहभागितया प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शनेन च उत्तराखण्डः शीघ्रमेव देशस्य अग्रणीश्रेष्ठराज्येषु स्वस्य विशिष्टपरिचयं स्थापयिष्यति। मुख्यमन्त्री श्रावणीमेलायाम् उपस्थितान् श्रद्धालून् प्रति आस्थायाः स्वच्छतायाः पर्यावरणसंरक्षणस्य च सन्देशं जनजनं प्रति प्रसारयितुम् आह्वानं कृतवान्। तेन उक्तं यत् देवभूमेः पवित्रता प्राकृतिकसम्पदः सांस्कृतिकपरम्परा च अस्माकं सर्वेषां सामूहिकी उत्तरदायित्वम् अस्ति। श्रावणीमेला अस्माकं समृद्धपरम्पराणां लोकसंस्कृतेः सामाजिकसमरसतायाश्च जीवन्तः उत्सवः अस्ति, यस्य अधिकभव्यदिव्यस्वरूपप्रदाने राज्यसर्वकारः निरन्तरं प्रयतते।
अस्मिन्नवसरे केन्द्रीयराज्यमन्त्री अजयटम्टा, मन्त्रिमण्डलमन्त्री डा धनसिंहरावत, जागेश्वरविधायकः मोहनसिंहमेहरा, जिलापञ्चायताध्यक्षा हेमागैडा, अल्मोडानगरमहापौरः अजयवर्मा, क्षेत्रपञ्चायतप्रमुखाः, जिलाधिकारी अंशुलसिंह, वरिष्ठपुलिसअधीक्षकः चन्द्रशेखर आर एस, जागेश्वरमन्दिरसमितेः पदाधिकारीणः, जनप्रतिनिधयः, स्थानीयजनाः तथा बहुसंख्यकाः श्रद्धालवः श्रावणीमेलाशुभारम्भस्य साक्षिणः अभवन्।
Hindusthan Samachar / Dheeraj Maithani