वैश्विक सद्भावस्य संदेशेन सह शांतिकुंजं प्राप्नोत् ब्राजीलियाईदलम्
हरिद्वारम्,16 जुलाईमासः (हि. स.) ।भारतब्राजीलदेशयोः सांस्कृतिकशैक्षणिकसहयोगस्य सुदृढीकरणस्य दिशि ब्राजीलदेशस्य चतुर्दशसदस्यात्मकं प्रतिनिधिमण्डलं देवसंस्कृतिविश्वविद्यालयं शान्तिकुञ्जं च आगच्छत्। दलस्य सर्वेषां सदस्याणां भारतीयपरम्परानुसारं तिलकाङ्
भेंट करते दल के सदस्य


हरिद्वारम्,16 जुलाईमासः (हि. स.) ।भारतब्राजीलदेशयोः सांस्कृतिकशैक्षणिकसहयोगस्य सुदृढीकरणस्य दिशि ब्राजीलदेशस्य चतुर्दशसदस्यात्मकं प्रतिनिधिमण्डलं देवसंस्कृतिविश्वविद्यालयं शान्तिकुञ्जं च आगच्छत्। दलस्य सर्वेषां सदस्याणां भारतीयपरम्परानुसारं तिलकाङ्गवस्त्रादिभिः आत्मीयस्वागतं कृतम्।

प्रतिनिधिमण्डलं देवसंस्कृतिविश्वविद्यालयस्य प्रतिकुलपतिना डा. चिन्मयपण्ड्येन सह शिष्टाचारभेटामकरोत्। अस्मिन्नवसरे डा. पण्ड्येन भारतीयज्ञानपरम्परा, योगः, अध्यात्मम्, संस्कृतिः, जीवनमूल्याधारितशिक्षाप्रणाल्याः वैशिष्ट्यैः अतिथयः परिचिताः कृताः। तेन उक्तं यत् भारतीयसंस्कृतेः मूलदर्शनं वसुधैव कुटुम्बकम् अस्ति, यत् समग्रमानवतां एकं कुटुम्बम् इति मन्यते तथा प्रेरणां ददाति। अन्तरराष्ट्रीयसंवादाः वैश्विकसद्भावस्य, सांस्कृतिकसम्बोधस्य, मानवीयमूल्यानां च सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।

भ्रमणस्य समये प्रतिनिधिमण्डलेन विश्वविद्यालयपरिसरे सञ्चाल्यमानानां शैक्षणिकशोधयोगव्यक्तित्वविकाससांस्कृतिकगतिविधीनाम् अवलोकनं कृतम्। सहैव शान्तिकुञ्जे सञ्चाल्यमानानाम् आध्यात्मिकरचनात्मकाभियानानां तथा युगऋषेः पण्डितश्रीरामशर्माचार्यस्य विचाराणां युगनिर्माणान्दोलनस्य च संसूचना प्राप्ता। विदेशीयाः अतिथयः भारतीयजीवनदर्शनस्य योगस्य मूल्यनिष्ठशिक्षायाः च समन्वितस्वरूपस्य प्रशंसां कृत्वा तत् वैश्विकसमाजस्य कृते प्रेरणाप्रदम् इति अभ्यगुः।

Hindusthan Samachar / Dheeraj Maithani