Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, १७ जुलाईमासः (हि.स.)। भगवतः जगन्नाथस्य विश्वविख्यातायां रथयात्रायां राष्ट्रीय-स्वयंसेवक-सङ्घस्य स्वयंसेवकैः सेवा-समर्पणयोः परम्परां निर्वहद्भिः जनसमूहनियन्त्रणे, आपत्कालीन-सहायतायां तथा चिकित्सासेवासु सक्रियः सहभागः कृतः। लक्षशः श्रद्धालूनां उपस्थितौ स्वयंसेवकैः एम्बुलेन्स-यानानां निर्बाध-आवागमनस्य व्यवस्थापनात् आरभ्य अस्वस्थानां आहतातानां च श्रद्धालूनाम् चिकित्सालयं प्रेषणपर्यन्तं विविधानि दायित्वानि निर्वुढानि।
रथयात्राकाले जनसमाकीर्णेषु मार्गेषु मानव-शृङ्खला निर्माय एम्बुलेन्स-यानानां सुचारु-आवागमनं सुनिश्चितम्। अनेन उपक्रमेण अस्वस्थान् श्रद्धालून् शीघ्रमेव चिकित्सालयं प्रापयितुं महती सहायता अभवत्। स्वयंसेवकानां अनुशासितैः समन्वितैश्च प्रयत्नैः व्यापकः प्रशंसाभावः अभवत्।
उत्कल-विपन्न-सहायता-समितेः सहयोगेन आरएसएस-सङ्घेन अस्मिन् वर्षेऽपि नवविधानां सेवा-गतिविधीनां सञ्चालनं कृतम्। रथयात्रायाः दिने समितेः प्राथमिक-चिकित्सा-केन्द्रे एतेषां सेवाकार्याणां विधिवद् उद्घाटनम् अभवत्। अस्मिन् अवसरे आरएसएस-उड़ीसा-पूर्व-प्रान्तस्य प्रान्त-सङ्घचालकः समीरकुमार-महान्तिः, क्षेत्र-सेवा-प्रमुखः दीपककुमार-राउतः तथा समितेः सचिवः वी. कृष्णगोपालः दीपप्रज्वलनं कृत्वा सेवाकार्याणि प्रारब्धवन्तः।
स्वयंसेवकैः आहतान् मूर्छितांश्च श्रद्धालून् चिकित्सालयं प्रेषयितुं, स्ट्रेचर-सेवां प्रदातुं तथा चिकित्सालयेषु समन्वयं स्थापयितुं व्यवस्थितरीत्या कार्याणि सम्पन्नानि। बड़दाण्ड-क्षेत्रे अस्वस्थान् श्रद्धालून् त्वरितम् एम्बुलेन्स-यानं प्राप्य चिकित्सालयं प्रेषिताः, यत्र तेषां आवश्यक-चिकित्सा-सहायता प्रदत्ता।
अस्मिन् वर्षे ओड़ीसा-राज्यस्य सर्वेभ्यः ३० जनपदेभ्यः १८०० अधिकाः स्वयंसेवकाः नियुक्ताः। विविधाभिः टोलीभिः पर्यायक्रमशः एम्बुलेन्स-सेवा, पेयजल-वितरणम्, जल-प्रक्षेपणम्, स्वच्छता-व्यवस्था तथा चिकित्सालय-सहायता इत्यादीनि कार्याणि सम्पन्नानि। प्राथमिक-स्वास्थ्य-केन्द्रेषु वैद्यैः, औषध-वितरकैः तथा सहयोगि-कर्मचारिभिः निरन्तरं सेवाः प्रदीयन्ते स्म।
रथमार्गात् मेडिकल-चतुष्पथं यावत् एम्बुलेन्स-मार्गस्य निर्बाध-सञ्चालनम् अस्य सेवा-अभियानस्य प्रमुखम् उद्देश्यम् आसीत्, येन आपत्कालीन-परिस्थितिषु शीघ्र-सहायता सुनिश्चिताभवत्। एताः चिकित्सासेवाः बाहुडा-यात्रा पर्यन्तं निरन्तरं प्रवर्तिष्यन्ते।
आरएसएस-सङ्घेन सह हिन्दू-जागरण-मञ्चस्य ५०० अधिकाः कार्यकर्तारोऽपि सेवाकार्येषु सक्रियतया संलग्नाः आसन्। अस्मिन् अवसरे राष्ट्रीय-सह-सङ्गठन-मन्त्री देवेन्द्र:, ओड़ीसा-प्रान्त-सङ्गठन-मन्त्री तन्मय-दाशः, प्रान्त-संयोजकः रघुनाथ-बारिकः, सह-संयोजकः आशीष-बी.-छोटरायः, कार्यकारिणी-सदस्यः सुब्रत-धलः तथा अन्ये पदाधिकारीण: उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan