महिला सशक्तिकरणं सामाजिक उत्तरदायित्वं, केवलम् एकस्याः संस्थायाः दायित्वं न : कुलपतिः
हल्द्वानी, 17 जुलाईमासः (हि.स.)। उत्तराखण्डमुक्तविश्वविद्यालयस्य महिला-अध्ययनकेन्द्रस्य समाजशास्त्रविभागस्य च संयुक्ततत्त्वावधानेन शुक्रवासरे सीडीएस-जनरल्-बिपिनरावत-बहुउद्देशीयभवने “महिलाआयोगः—भूमिका, चुनौतयः तथा सम्भावनाः” इति विषये एकदिवसीया का
उत्तराखण्ड मुक्त विश्वविद्यालय में महिला आयोग : भूमिका, चुनौतियाँ एवं संभावनाएँ विषय पर एक दिवसीय कार्यशाला का आयोजन


हल्द्वानी, 17 जुलाईमासः (हि.स.)।

उत्तराखण्डमुक्तविश्वविद्यालयस्य महिला-अध्ययनकेन्द्रस्य समाजशास्त्रविभागस्य च संयुक्ततत्त्वावधानेन शुक्रवासरे सीडीएस-जनरल्-बिपिनरावत-बहुउद्देशीयभवने “महिलाआयोगः—भूमिका, चुनौतयः तथा सम्भावनाः” इति विषये एकदिवसीया कार्यशाला आयोजिता। अस्यां कार्यशालायां महिलानामधिकाराः, सुरक्षा, सशक्तीकरणम्, लैङ्गिकसमता च इत्यादिषु विविधविषयेषु विशेषज्ञैः स्वविचाराः प्रस्तुताः।

कार्यक्रमस्य शुभारम्भः दीपप्रज्वालनेन अभवत्। अकादमिकनिदेशकः प्रो. पी. डी. पन्तः स्वागतभाषणे उक्तवान् यत् महिलासशक्तीकरणं समावेशिनः न्यायपूर्णस्य च समाजस्य आधारशिला अस्ति। विश्वविद्यालयः अस्यां दिशि जनजागरूकताकार्यक्रमान् निरन्तरम् आयोजयिष्यति।

समाजविज्ञानविद्याशाखायाः महिला-अध्ययनकेन्द्रस्य च निदेशिका प्रो. रेनूप्रकाशः कार्यशालायाः रूपरेखां प्रस्तुतवती। सा अवदत् यत् महिलाआयोगः महिलानामधिकारसंरक्षणे, न्यायसुनिश्चितीकरणे, आत्मनिर्भरतावर्धने च महत्त्वपूर्णां भूमिकां निर्वहति। परिवर्तमाने सामाजिकपरिवेशे आयोगस्य भूमिका अधिका व्यापकाऽभवत्।

मुख्यवक्त्री राष्ट्रियमहिलाआयोगस्य डॉ. पलकमित्तलः महिलाआयोगस्य संवैधानिकवैधानिकभूमिकां, महिलानामधिकारान्, गार्हस्थ्यहिंसां, साइबर-अपराधान्, कार्यस्थले लैङ्गिकपीडनम्, बालविवाहं तथा महिलासुरक्षासम्बद्धान् विधानान् विस्तरेण निरूपितवती। सा महिलाः स्वाधिकारान् प्रति सजागराः भवितुम् उपलब्धवैधानिकव्यवस्थानां प्रभावीमुपयोगं कर्तुं च आहूतवती।

मुख्यातिथिः उत्तराखण्डराज्यमहिलाआयोगस्य अध्यक्षा कुसुमकण्डवालः अवदत् यत् राज्यमहिलाआयोगः गतत्रयोविंशतिवर्षेभ्यः महिलानां समस्याः शीघ्रं समाधातुं न्यायं च प्रदातुं कार्यरतः अस्ति। सा ग्रामीणदूरस्थक्षेत्रेषु आयोगस्य पहुँचविस्ताराय, जनजागरूकताभियानानाम् आयोजनाय तथा महिलानां शिक्षायाः आर्थिकात्मनिर्भरतायाश्च संवर्धनाय विशेषं बलम् अददात्।

कार्यक्रमस्य अध्यक्षतां कुर्वन् कुलपतिः प्रो. नवीनचन्द्रलोहनी अवदत् यत् महिलासशक्तीकरणं सम्पूर्णसमाजस्य सामूहिकी उत्तरदायित्वम् अस्ति। उच्चशिक्षणसंस्थानानि केवलं शिक्षाप्रदाने न, अपितु सामाजिककर्तव्यपालनेऽपि अग्रणीभूमिकां निर्वहेयुः। महिला-अध्ययनसम्बद्धानां लैङ्गिकसमतासम्बद्धानां च अनुसन्धानकार्यक्रमाणां जनजागरूकताप्रयत्नानां च प्रोत्साहनम् आवश्यकम् इति तेन प्रतिपादितम्।

कार्यक्रमस्य सहसंयोजकः शिक्षाशास्त्रविद्याशाखायाः निदेशकः प्रो. डिगरसिंहफर्सवानः सर्वेभ्यः अतिथिभ्यः प्रतिभागिभ्यश्च धन्यवादं ज्ञापितवान्। कार्यक्रमस्य सञ्चालनं डॉ. नागेन्द्रगङ्गोलः अकरोत्।

कार्यशालायां विश्वविद्यालयस्य विविधविद्याशाखानां निदेशकाः, प्राध्यापकाः, शोधार्थिनः, प्रशासनिकाधिकारिणः, महिलाआयोगस्य प्रतिनिधयः, बहुसंख्यकाः विद्यार्थिनः तथा विश्वविद्यालयपरिवारस्य सदस्याः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani