नीट यूजी 2026 परिणाम: एलन जयपुरस्य विद्यार्थिनोऽकुर्वन् उत्कृष्टं प्रदर्शनम्
जयपुरम्, 17 जुलाईमासः (हि.स.)। एलन-जयपुरसंस्थानेन नीट्-यूजी-२०२६ परीक्षायाम् उत्कृष्टं प्रदर्शनं कृत्वा पुनरेकवारं स्वकीयां शैक्षणिकश्रेष्ठतां प्रमाणितवती। संस्थायाः कक्षाशिक्षणकार्यक्रमे अध्ययनरताः विद्यार्थिनः राष्ट्रियस्तरे उल्लेखनीयाः अखिलभार
एलन  के छात्र


जयपुरम्, 17 जुलाईमासः (हि.स.)।

एलन-जयपुरसंस्थानेन नीट्-यूजी-२०२६ परीक्षायाम् उत्कृष्टं प्रदर्शनं कृत्वा पुनरेकवारं स्वकीयां शैक्षणिकश्रेष्ठतां प्रमाणितवती। संस्थायाः कक्षाशिक्षणकार्यक्रमे अध्ययनरताः विद्यार्थिनः राष्ट्रियस्तरे उल्लेखनीयाः अखिलभारतीयस्थानाङ्काः प्राप्तवन्तः तथा जयपुरनगरस्य श्रेष्ठप्रदर्शनकर्तृषु स्थानं प्राप्तवन्तः।

एलनसंस्थायाः उपाध्यक्षः तथा राजस्थानक्षेत्रस्य प्रादेशिकाध्यक्षः अरुणजैनः अवदत् यत् विद्यार्थिनः स्वपरिश्रमेण, समर्पणभावेन तथा संस्थायाः निरन्तरशैक्षणिकमार्गदर्शनेन एतां सफलतां प्राप्तवन्तः। सः उक्तवान् यत् एलन-जयपुरसंस्थायाः अनेके विद्यार्थिनः राष्ट्रियस्तरे उच्चस्थानाङ्कान् प्राप्तवन्तः, येन संस्थायाः परिणाममुखीशिक्षणपद्धतेः सुदृढशैक्षणिकव्यवस्थायाश्च प्रभावशीलता पुनः प्रमाणिता। विद्यार्थिनां सफलता अनुभवीशिक्षकैः, नियमितपरीक्षाभिः, वैयक्तिकमार्गदर्शनेन तथा निरन्तरप्रदर्शनविश्लेषणेन सम्भवा अभवत्। सः विश्वासं व्यक्तवान् यत् एलन-जयपुरसंस्था भविष्येऽपि उत्कृष्टतायाः परम्परां निर्वहन्ती नूतनमानदण्डान् स्थापयिष्यति।

संस्थया प्रदत्तसूचनानुसारं नीट्-यूजी-२०२६ परीक्षायां एलन-जयपुरसंस्थायाः त्रयः विद्यार्थिनः शीर्ष-द्विशतके, षट् विद्यार्थिनः शीर्ष-चतुःशतके, दश विद्यार्थिनः शीर्ष-सहस्रे, पञ्चदश विद्यार्थिनः शीर्ष-पञ्चदशशतके तथा एकविंशतिः विद्यार्थिनः शीर्ष-द्विसहस्रे स्थानं प्राप्तवन्तः।

एलन-जयपुरसंस्थायाः प्रमुखस्थानप्राप्तेषु विद्यार्थिषु अजयचौधरी (एआईआर १४४), देवेशसिंहगुर्जर (१५३), दक्षखण्डेलवाल (१५४), भव्ययादवः (३१९), बुशराफिरोज (३५४), लक्ष्यसिंघलः (३६२), जयश्रीपारीकः (६०४), पीयूषबंसलः (६१७), ईशानकटारिया (९०३), विभोर (९६८), रचितगोयलः (१२३२), उपकारसिंहराणा (१२३८), चित्रांशराजभारद्वाजः (१२९१), कार्तिकशर्मा (१३१७), जयवर्धनभारद्वाजः (१३३६), राघवडगायचः (१६३६), सृष्टिशर्मा (१६७५), प्रत्युषजैनः (१७३१), सृष्टिशिवनानी (१७५०), जयश्रीलखेरा (१८१३) तथा स्नेहाचौधरी (१९२०) समाविष्टाः सन्ति।

एलनसंस्थायाः प्रादेशिकाध्यक्षः अवदत् यत् देशव्यापि एलन-करियर-इन्स्टिट्यूटस्य विद्यार्थिनः अपि नीट्-यूजी-२०२६ परीक्षायां उच्चतमाः अखिलभारतीयस्थानाङ्काः प्राप्तवन्तः, येन चिकित्साप्रवेशपरीक्षाप्रस्तुतिक्षेत्रे संस्थायाः अग्रणीस्थानं अधिकं सुदृढम् अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani