अमृतभारतस्थानकयोजनायाः अन्तर्गते 90तः अधिकस्थानकानां भविष्यति कायाकल्पः : सुकांतमजूमदारः
सिलीगुड़ी, 17 जुलाईमासः (हि.स.)।समग्रे देशे अद्य अमृतभारतस्थानकयोजनायाः अन्तर्गतं नवत्यधिकानां रेलस्थानकानाम् उद्घाटनं क्रियते। अस्मिन् एव कार्यक्रमे सहभागित्वाय शुक्रवासरे केन्द्रीयमन्त्री सुकान्तमजूमदारः बागडोगराविमानस्थानकम् आगतः। बागडोगराविमानस
अमृतभारतस्थानकयोजनायाः अन्तर्गते 90तः अधिकस्थानकानां भविष्यति कायाकल्पः : सुकांतमजूमदारः


सिलीगुड़ी, 17 जुलाईमासः (हि.स.)।समग्रे देशे अद्य अमृतभारतस्थानकयोजनायाः अन्तर्गतं नवत्यधिकानां रेलस्थानकानाम् उद्घाटनं क्रियते। अस्मिन् एव कार्यक्रमे सहभागित्वाय शुक्रवासरे केन्द्रीयमन्त्री सुकान्तमजूमदारः बागडोगराविमानस्थानकम् आगतः।

बागडोगराविमानस्थानके पत्रकारैः सह संवादं कुर्वन् सुकान्तमजूमदारः अवदत् यत् केन्द्रीयगृहमन्त्रिणः आधिकारिकप्रवासस्य सिद्धताः प्रचलन्ति। तेन आरोपः कृतः यत् पूर्वं राज्यसर्वकारस्य सहयोगाभावात् सीमायां बाडनिर्माणकार्यं प्रभावितम् अभवत्, किन्तु अधुना नूतनव्यवस्थायां भूमिः सीमासुरक्षाबलाय प्रदत्ता अस्ति, येन कार्यं शीघ्रतया प्रवर्तते।

तेन उक्तं यत् अद्य भारते प्रथमवारं हाइड्रोजनशक्त्या सञ्चाल्यमानस्य रेलयानस्य प्रारम्भः अपि भवति। एतत् पर्यावरणस्य कृते अत्यन्तं महत्त्वपूर्णं पदक्षेपः अस्ति, यतः अनेन किमपि प्रदूषणं न भविष्यति। तेन उक्तं यत् प्रधानमन्त्री रेलमन्त्रिणः च नेतृत्वे भारतीयरेलविभागे अभूतपूर्वाः परिवर्तनाः अभवन्।

सुकान्तमजूमदारः अवदत् यत् पश्चिमबङ्गराज्यस्य पञ्चविंशतिः स्थानकानि समावेश्य देशस्य नवत्यधिकानाम् अमृतभारतस्थानकानाम् उद्घाटनं भवति तथा रेलविकासस्य क्षेत्रे एतादृशं महत् कार्यं पूर्वं कदापि न अभवत्।

राजनैतिकविषयेषु भाषमाणः तेन दलस्य नीतिः स्पष्टतया प्रतिपादिता। तेन उक्तं यत् सङ्गठनस्य अनुमतिं विना कश्चन अपि दलस्य सदस्यत्वेन न स्वीकृतः भविष्यति। तेन सहैव महिलानाम् आरक्षणं देशहिताय अत्यावश्यकम् इति प्रतिपादितम्।

Hindusthan Samachar / Dheeraj Maithani