आर्थिकरूपेण दुर्बलं विद्यार्थी न भविष्यति उच्चशिक्षया वंचितः- मुख्यमंत्री
गुवाहाटी, 17 जुलाईमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा उक्तवान् यत् आर्थिकदृष्ट्या दुर्बलाः विद्यार्थिनः धनाभावकारणात् उच्चशिक्षायाः अधिकारात् वञ्चिताः न भविष्यन्ति। एतदर्थं राज्यसर्वकारेण नियुतमोईना तथा नियुतबाबू इति द्वे प्रमु
असमः मुख्यमंत्री द्वारा सोशल मीडिया पर जारी पोस्ट की तस्वीर


गुवाहाटी, 17 जुलाईमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा उक्तवान् यत् आर्थिकदृष्ट्या दुर्बलाः विद्यार्थिनः धनाभावकारणात् उच्चशिक्षायाः अधिकारात् वञ्चिताः न भविष्यन्ति। एतदर्थं राज्यसर्वकारेण नियुतमोईना तथा नियुतबाबू इति द्वे प्रमुखे योजनॆ प्रारब्धे स्तः। एताभ्यां योजनाभ्यां आर्थिकदृष्ट्या दुर्बलविद्यार्थिनां पूर्णतया साहाय्यं विधास्यते।

मुख्यमन्त्री अद्य सामाजिकमाध्यमेन एकां संसूचनां प्रसारयन् उक्तवान् यत् शिक्षाप्राप्तेः विषये कस्यापि छात्रस्य छात्रायाः वा मार्गे आर्थिककठिनता कदापि विघ्नः न भवेत्, एतमेव उद्देश्यम् अधिगम्य वयं सुलभां विशेषां च व्यवस्थाम् अकरोत्। नियुतमोईना तथा नियुतबाबू योजनाभ्यां वयं लक्षशः छात्राणां उच्चशिक्षासम्बद्धानां स्वप्नानां दृढं समर्थनं कुर्मः।

सः उक्तवान् यत् वर्षे २०२६ २७ तमे वित्तवर्षे एतयोः योजनयोः कृते महत्त्वपूर्णव्ययस्य प्रस्तावं प्रस्तुत्य वयं पुनरपि स्पष्टयामः यत् उच्चशिक्षायाः मार्गे कापि बाधा अवरोधः वा भवितुं न अर्हति। सर्वकारेण नियुतमोईना योजनायाः अन्तर्गतं ३१८ दशमलव ३७ कोटिरूप्यकाणां वित्तीयप्रावधानं कृतम्, येन ५ दशमलव ३३ लक्षछात्र्यः लाभं प्राप्स्यन्ति। तथा च नियुतबाबू योजनायाः अन्तर्गतं ५४ दशमलव ९७ कोटिरूप्यकाणां प्रावधानं कृतम्, येन १ दशमलव ०८ लक्षछात्राः लाभान्विताः भविष्यन्ति।

मुख्यमन्त्री उक्तवान् यत् प्रत्येकस्य छात्रस्य स्वप्नस्य साकारकरणं अस्माकं प्राधान्यविषयः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani