एसएसबी इत्यस्य रोतायां 100 दिवसीयस्य योगस्य शुभारंभः
गुवाहाटी, 17 जुलाईमासः (हि.स.)।गुवाहाटीनगरस्य सोनापुरक्षेत्रस्थितस्य सशस्त्रसीमाबलस्य (एसएसबी) प्रथमवाहिन्याः कमाण्डेण्टः सुनीलकौशिकस्य मार्गदर्शने अद्य आरभ्य ‘ए’ समवायेन रोतास्थले शतदिवसीययोगाभियानस्य शुभारम्भः कृतः। अस्य प्रमुखोद्देश्यः जवानानां
असमः एसएसबी का रोता में 100 दिवसीय योग के शुभारंभ का दृश्य


गुवाहाटी, 17 जुलाईमासः (हि.स.)।गुवाहाटीनगरस्य सोनापुरक्षेत्रस्थितस्य सशस्त्रसीमाबलस्य (एसएसबी) प्रथमवाहिन्याः कमाण्डेण्टः सुनीलकौशिकस्य मार्गदर्शने अद्य आरभ्य ‘ए’ समवायेन रोतास्थले शतदिवसीययोगाभियानस्य शुभारम्भः कृतः। अस्य प्रमुखोद्देश्यः जवानानां स्थानीयनागरिकाणां च शारीरिकमानसिकारोग्यस्य संवर्धनं, तनावस्य न्यूनीकरणं तथा स्वस्थजीवनशैल्याः प्रोत्साहनं च वर्तते।

कार्यक्रमस्य प्रारम्भः योगगुरुणा योगस्य महत्त्वविषये व्याख्यानेन सामूहिकयोगाभ्यासेन च अभवत्। अस्मिन् प्राणायामः, सूर्यनमस्कारः तथा विविधासनानामभ्यासः कारितः। समवायस्य जवानैः सह स्थानीयजनाः बालकाः च उत्साहपूर्वकं कार्यक्रमे सहभागी अभवन्।

अस्मिन्नवसरे समवायप्रभारी सहायककमाण्डेण्टः विद्याप्रकाशः अवदत् यत् “योगः केवलं शरीरं निरामयं न करोति, अपितु मनसः शान्तिमपि प्रददाति। शतदिनपर्यन्तं निरन्तरयोगाभ्यासेन जीवने सकारात्मकः परिवर्तनः भविष्यति।”

कार्यक्रमस्य समापनकाले विद्याप्रकाशेन उपस्थितानां जवानानां स्थानीयनागरिकाणां बालकानां च अभिनन्दनं कृतम्।

--------------

Hindusthan Samachar / Dheeraj Maithani