छत्तीसगढस्य  बालोदः, चांपा एवं सरोना रेलवे स्थानकस्य अद्य प्रधानमंत्री मोदी करिष्यति शुभारंभमम्
रायपुरम्, 17 जुलाईमासः (हि.स.)। अमृतभारत-स्थानक-योजनायाः अन्तर्गतस्य आधुनिकरूपेण विकसितस्य छत्तीसगढराज्यस्य चाम्पा-रेलस्थानकं यात्रिकाणां सेवायै सम्पूर्णतया सज्जम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य दृश्यसञ्चारमाध्यमेन देशव्यापिनां पुनर्विकसि
बालोद रेलवे स्टेशन


रायपुरम्, 17 जुलाईमासः (हि.स.)।

अमृतभारत-स्थानक-योजनायाः अन्तर्गतस्य आधुनिकरूपेण विकसितस्य छत्तीसगढराज्यस्य चाम्पा-रेलस्थानकं यात्रिकाणां सेवायै सम्पूर्णतया सज्जम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य दृश्यसञ्चारमाध्यमेन देशव्यापिनां पुनर्विकसितानां पञ्चसप्ततिः रेलस्थानकानां लोकार्पणं करिष्यति। अस्यां सूच्यां बिलासपुर-रेलमण्डलस्य चाम्पा-रेलस्थानकं तथा रायपुर-रेलमण्डलस्य सरोना-रेलस्थानकं बालोद-रेलस्थानकं च समाविष्टे स्तः।

अमृतभारत-स्थानक-योजनायाः अन्तर्गतं चाम्पा-रेलस्थानकं तथा रायपुर-रेलमण्डलस्य सरोना-रेलस्थानकं बालोद-रेलस्थानकं च आधुनिकसुविधाभिः सुसज्जिते कृते। स्थानके आकर्षकभवनम्, उन्नताः प्रतीक्षालयाः, दिव्याङ्गजनानुकूलसुविधाः, आधुनिकप्रकाशव्यवस्था, स्वच्छपरिसरः तथा यात्रिकसुविधानां विस्तारः कृतः अस्ति, येन यात्रिकेभ्यः अधिकं सुरक्षितं सुविधाजनकं सुखदं च यात्रानुभवं भविष्यति।

एषा परियोजना न केवलं क्षेत्रस्य रेलाधारसंरचनां सुदृढां करिष्यति, अपितु स्थानीयवाणिज्यस्य, रोजगारस्य तथा क्षेत्रीयविकासस्य अपि नूतनां गतिं प्रदास्यति। अमृतभारत-स्थानक-योजनायाः उद्देश्यम् अस्ति यत् देशव्यापिनः रेलस्थानकाः विश्वस्तरीयसुविधाभिः समलङ्कृताः सन्तः आधुनिकाः, सुरक्षिताः, सुगमाः यात्रिककेन्द्रिताश्च भवन्तु। अस्यां दिशि चाम्पा-रेलस्थानकस्य पुनर्विकासः क्षेत्रनिवासिनां कृते महत्त्वपूर्णा उपलब्धिः इति मन्यते।

Hindusthan Samachar / Dheeraj Maithani