बङ्गप्रदेशे विकासस्य नूतनाः सम्भावनाः सृजति द्वि-यन्त्र-शासनम् : शुभेन्दु-अधिकारी
कोलकाता, १७ जुलाईमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी शुक्रवासरे श्याम-स्टील-निर्माण्याः नूतन-उद्योगसंस्थायाः शिलान्यास-कार्यक्रमे राज्ये औद्योगिक-विकासस्य नूतन-युगस्य प्रारम्भस्य दावा कृत्वा उक्तवान् यत् बङ्गप्रदेशः अधुना आर्थ
श्याम स्टील के मंच से संबोधित करते मुख्यमंत्री शुभेंदु अधिकारी


कोलकाता, १७ जुलाईमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी शुक्रवासरे श्याम-स्टील-निर्माण्याः नूतन-उद्योगसंस्थायाः शिलान्यास-कार्यक्रमे राज्ये औद्योगिक-विकासस्य नूतन-युगस्य प्रारम्भस्य दावा कृत्वा उक्तवान् यत् बङ्गप्रदेशः अधुना आर्थिक-प्रगतेः मार्गे सम्यगग्रे सरति तथा अग्रिमेषु कालेषु राज्ये उद्योगानां “गणना” आरभ्यते। तेन उक्तं यत् दीर्घकालं यावत् औद्योगिक-पश्चादवस्थायाः निवेशकानां पलायनस्य च पीडां सोढवतः बङ्गप्रदेशस्य कृते अधुना द्वि-यन्त्र-शासनस्य माध्यमेन विकासस्य नूतनाः सम्भावनाः सृज्यन्ते।

मुख्यमन्त्रिणा उक्तं यत् वामशासनकाले एकस्मिन् अपरस्मिन् च उद्योगे ताडनिका-निरोधः अभवत्, बहुसंख्यकाः श्रमिकाः बेरोजगारिणः अभवन्, आत्महत्याः अपि वर्धिताः, रोजगारस्य अन्वेषणाय जनाः अन्यराज्यानि प्रति पलायितवन्तः। तस्य मते गतदशकेषु राज्यम् आर्थिक-विपत्तेः सम्मुखिना: अभवन् तथा निवेशकाः उद्योगपतयश्च बङ्गप्रदेशात् दूरं गतवन्तः।

तेन उक्तं यत् वर्तमान-सर्वकारः राज्ये उद्योगानुकूलं वातावरणं निर्मातुं दृढसङ्कल्पितः अस्ति।

मुख्यमन्त्रिणा उक्तं यत् राज्ये अधुना “सिण्डिकेट-संस्कृतिः”, “कटमनी” इत्यादयः अवैध-संग्रहणानि कदापि न सह्यन्ते। एतादृश्याः कस्याः अपि अवैध-क्रियायाः सूचना प्राप्तमात्रेण सर्वकारेण तत्क्षणमेव कठोर-कार्यवाही क्रियते इति तेन स्पष्टीकृतम्।

निवेशकान् सम्बोधयन् मुख्यमन्त्री उक्तवान् यत् नूतनायाः औद्योगिक-नीतेः केन्द्रबिन्दुः केवलं निवेशस्य परिमाणं न, अपितु तस्मात् उत्पद्यमानाः रोजगार-अवसराः भविष्यन्ति। प्रोत्साहन-योजनानां निर्धारणम् अस्मिन् आधारे भविष्यति यत् राज्यस्य कतिभ्यः युवभ्यः रोजगारः प्रदत्तः।

उद्योगपतिभ्यः आश्वासनं दत्त्वा मुख्यमन्त्री उक्तवान् यत् अधुना बङ्गप्रदेशे उद्योग-स्थापनाय अनावश्यक-प्रशासनिक-जटिलताः न भविष्यन्ति। सर्वकारः स्वयमेव आवश्यक-व्यवस्थाः सुनिश्चिताः करिष्यति। तेन आरोपितं यत् पूर्वशासनकाले उद्योगपतिभ्यः विभिन्नेषु स्तरेषु अतिरिक्त-धनप्रदानस्य बलस्य च सम्मुखिन: कर्तव्यः आसीत्, किन्तु अधुना सा व्यवस्था समूलं समाप्ता।

मुख्यमन्त्री उक्तवान् यत् बङ्गप्रदेशस्य सांस्कृतिक-परिचयः अक्षुण्णः भविष्यति तथा औद्योगिक-विकासेन सह राज्यस्य परम्परा सामाजिक-संरचना च सुरक्षिते भविष्यतः। तेन उक्तं यत् यदि राज्ये राजनैतिक-परिवर्तनं नाभविष्यत् तर्हि सम्भावितः निवेशः अन्यराज्यानि, विशेषतः ओडिशा-राज्यं, प्रति गतः अभविष्यत्।

तेन पुनरुक्तं यत् नूतन-सर्वकारस्य गठनानन्तरम् अल्पकाले एव विशाल-परिमाणे निवेशः प्राप्तः तथा अनेके औद्योगिक-समूहाः राज्ये निवेशेच्छां व्यक्तवन्तः। अस्मिन्नवसरे तेन पूर्वमुख्यमन्त्रिणीं ममता-बैनर्जीम् अप्रत्यक्षरूपेण लक्ष्यीकृत्य उक्तं यत् तया नूतनानाम् औद्योगिक-संयन्त्राणां भ्रमणं कृत्वा राज्ये भवतः परिवर्तनस्य प्रत्यक्षानुभवः करणीयः।

सिङ्गूर-नन्दीग्रामयोः घटनयोः उल्लेखं कुर्वन् मुख्यमन्त्री स्पष्टीकृतवान् यत् राज्ये औद्योगिकीकरणस्य नाम्ना कश्चन अपि बलात् विस्थापितः न भविष्यति। भूम्यधिग्रहणस्य औद्योगिक-परियोजनानां वा सम्बन्धिनः सर्वे निर्णयाः परस्पर-चर्चया, सहमत्या, निर्धारित-क्षतिपूर्ति-प्रक्रियया च एव करिष्यन्ते।

अन्ते मुख्यमन्त्री विश्वासं व्यक्तवान् यत् अग्रिमेषु कालेषु पश्चिमबङ्गः पुनरपि औद्योगिक-मानचित्रे स्वस्य सशक्तां उपस्थितिं स्थापयिष्यति तथा राज्यस्य युवभ्यः विशाल-परिमाणे रोजगार-अवसराः सृज्यन्ते।

Hindusthan Samachar / Divya Ranjan