Enter your Email Address to subscribe to our newsletters

नवदेहली, १७ जुलाईमासः (हि.स.)। देहली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता शुक्रवासरे शकूरपुर-क्षेत्रात् ४५ नूतनानाम् आयुष्मान-जन-आरोग्य-मन्दिराणाम् उद्घाटनम् अकरोत्। तया सूचितं यत् एतेषु केन्द्रेषु ८० प्रकाराणां निःशुल्क-परीक्षणानां सुविधा उपलब्धा अस्ति।
अस्मिन् अवसरे मुख्यमन्त्री रेखा-गुप्ता अवदत् यत् सर्वकारस्य सङ्कल्पः अस्ति यत् प्रत्येकं देहली-निवासी स्वगृहस्य स्वकालोनी-प्रदेशस्य च समीपे एव उत्तमाः स्वास्थ्य-सेवाः प्राप्नुयात्। अस्यैव उद्देशस्य पूर्त्यर्थम् अधुना देहली-नगरे ४१५ अधिकानि आयुष्मान-जन-आरोग्य-मन्दिराणि कार्यरतानि सन्ति। शीघ्रमेव १,१०० अधिकानाम् आयुष्मान-जन-आरोग्य-मन्दिराणां लक्ष्यं अपि पूर्णं भविष्यति।
मुख्यमन्त्री अवदत् यत् एतेषु केन्द्रेषु बहिरङ्ग-रोगी-सेवाः, मातृ-शिशु-स्वास्थ्य-सेवाः, टीकाकरण-सुविधाः, आवश्यक-औषधानि तथा ८० प्रकाराणि निःशुल्क-परीक्षणानि उपलब्धानि सन्ति।
अस्मिन् अवसरे विधायकः तिलकराम-गुप्तः, निगम-पार्षदः किशनलालः, जिलाध्यक्षः अजय-खटाना तथा अन्ये बहवः गणमान्य-जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan