जींदः- प्रधानमंत्रिणो नेतृत्वे हरियाणा विकासपथि अग्रसरः - नायबसैनी
केंद्रतः 12 वर्षेषु सप्त लक्षकोटिरूप्यकमितो विकास राशिः मिलितः जींदः, 17 जुलाईमासः (हि.स.)। मुख्यमन्त्री नायबसैनी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वयुक्तया सर्वकारेण हरियाणाराज्ये विकासस्य परिभाषा परिवर्तिता। अद्य हरियाणाय पञ्चदश
कार्यक्रम को संबोधित करते हुए मुख्यमंत्री नायब सैनी।


िकमम


केंद्रतः 12 वर्षेषु सप्त लक्षकोटिरूप्यकमितो विकास राशिः मिलितः

जींदः, 17 जुलाईमासः (हि.स.)।

मुख्यमन्त्री नायबसैनी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वयुक्तया सर्वकारेण हरियाणाराज्ये विकासस्य परिभाषा परिवर्तिता। अद्य हरियाणाय पञ्चदशसहस्रकोटिमूल्यकाः नव विकासपरियोजनाः प्रदत्ताः, पूर्वमेव च एकसप्ततिसहस्रकोटिमूल्यकाः परियोजनाः प्रदत्ताः। गतद्वादशवर्षेषु केन्द्रसर्वकारेण सप्तलक्षकोटिभ्यः अधिका विकासनिधिः राज्याय प्रदत्ता।

मुख्यमन्त्री नायबसैनी शुक्रवासरे जीन्दनगरस्य रेलसङ्गमस्थले प्रधानमन्त्री नरेन्द्रमोदिना उद्घाटितायाः हाइड्रोजनरेलयानसेवायाः अनन्तरं हुडाक्षेत्रे आयोजिते कार्यक्रमे सम्बोधनं कुर्वन् एतद् उक्तवान्। सः अवदत् यत् कदाचित् भारतः विश्वात् प्रौद्योगिकीम् अयाचत, किन्तु अद्य विश्वं भारतस्य प्रौद्योगिकीम् अङ्गीकरोति। पूर्वं भारतः अवसरान् अन्विष्यति स्म, अद्य तु विश्वं भारते अवसरान् अन्विष्यति। पूर्वं विश्वं पृच्छति स्म यत् भारतः एतत् कर्तुं शक्नुयात् वा, अद्य तु विश्वं वदति यत् भारतः आत्मविश्वासेन परिपूर्णः अस्ति। भारतः सर्वेषु क्षेत्रेषु नूतनान् कीर्तिमानान् स्थापयन् सम्पूर्णविश्वस्य कृते नूतनमानकान् निर्धारयति।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणा देशस्य दिशा दशा च परिवर्तिता। तेन केवलं विकासस्य भवनानि न निर्मितानि, अपि तु आगामिनीनां सन्ततीनां भविष्यं निर्मितम्। प्रधानमन्त्रिणः नेतृत्वे देशस्य स्वरूपं परिवर्तितम्। अद्य देशस्य यस्मिन् कस्मिंश्चित् भागे गम्यते तत्र आधारभूतसंरचनानां परियोजनानां च कार्याणि दृश्यन्ते। द्रुतमार्गाः स्युः, मार्गप्रणाल्यः स्युः, सेतवः स्युः, पत्तनविकासः स्यात्, देशस्य प्रत्येकः भागः विकासस्य साक्षी जातः। अद्य भारतः विकासस्य नूतनाः उन्नतयः स्पृशति।

मुख्यमन्त्री नायबसैनी अवदत् यत् एतत् सर्वं प्रधानमन्त्रिणः नेतृत्वस्य विकासनीतीनां च परिणामः अस्ति। हरियाणा भवतः जन्मभूमिः नास्ति, किन्तु कर्मभूमिः अवश्यमेव आसीत्। हरियाणाजनाः भवता सह आत्मीयसम्बन्धं धारयन्ति। यदा यदा प्रधानमन्त्री हरियाणाम् आगच्छति तदा तत् केवलं प्रवासः न भवति, अपि तु परिवारस्य मुखियस्य स्वगृहमागमनम् इव भवति।

मुख्यमन्त्री प्रधानमन्त्रिणं चतुर्दशलक्षकोटिभारतवासिनां सारथिं देशवासिनां स्वप्नानां संरक्षकं च निरूप्य अवदत् यत् तेन केवलं विकासस्य भवनानि न निर्मितानि, अपि तु आगामिनीनां सन्ततीनां भविष्यं गढितम्। अयं केवलं स्वप्नद्रष्टा भारतः नास्ति, अपि तु सङ्कल्पात् सिद्धिं प्राप्नुवन् भारतः अस्ति। नायबसैनी भारतीयजनतापक्षे हरियाणाप्रभारिरूपेण प्रधानमन्त्रिणः कार्यकालं स्मरन् अवदत् यत् भवता अत्रत्यां भूमिं स्वस्य रक्तस्वेदाभ्यां सिञ्चिता। एषा भवतः कर्मभूमिः आसीत्। अत्रत्याः जनाः भवता सह आत्मीयसम्बन्धं धारयन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani